पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३९६ अथर्वसंहिताभाष्ये औदुम्बरस्य तेजसा धाता पुष्टिं दधातु मे ॥ ३ ॥ करीषिणीम् । फलंऽवतीम् । स्वधाम् । इराम् । च । नः । गृहे। औदुम्बरस्य । तेजसा । धाता । पुष्टिम् । दधातु । मे ॥ ३ ॥ करीषिणीम् करीषो गवां शकृत् । प्रभूतेन करीषेण तद्वतीम् । अ- नेन गवां समृद्धिरुक्ता भवति तदभावे करीषाभावात् । तादृशीं स्व- धाम् । अन्ननामैतत् । स्वस्मिन् धीयत इति व्युत्पत्तेः । व्रीहियवादिल- क्षणम् अन्नं फलवतीम् प्रकृष्टेन फलेन उपेताम् इरां च भूमिमपि । अ- थवा इरा इला गौः । जात्येकवचनम् । गावः । अत्र करीषिणी् फ- लवतीम् इति विशेषणड्वयं स्वधाम् इरां च उभयमपि विशिनष्टि । उ- भयत्रापि संबन्धयोग्यतासंभवात् । नः अस्माकं गृहे । करत इति संब- न्धः । औदुम्बरस्य उदुम्बरविकारस्य मणेस्तेजसा सामर्थ्येन धाता सर्व- स्य विधाता एवंनामको देवः पुष्टिम्1 शरीरादिपोषं मे मम दधातु स्था- पयतु । करोत्वित्यर्थः ॥ चतुर्थी ॥ यद् द्विपाच्च चतुष्पाच्च यान्यन्नानि ये रसाः । गृह्णे ३हं त्वेषां भूमानं बिभ्रदौदुम्बरं मणिम् ॥ ४ ॥ यत् । विऽपात् । च । चर्तुःपात् । च । यानि । अन्नानि । ये। रसाः। गृहे । अहम्।तु। एषाम् । भूमानम्। बिभ्रत् । औदुम्बरम्। मणिम्॥४॥ द्विपात् पादद्वयोपेतं पुरुषादिकं यत् पशुजातम् अस्ति । यच्च चतुष्पात् पादचतुष्टयोपेतं गवादिकम् अस्ति । उभयत्र “संख्यासुपूर्वस्य" १ B औदम्बर. २K KV पुष्टिं दधातु मे. Dc पुष्टि to changed to पुष्टिं द°. We with CDRSC Dà. Wc with ACKİRŠ V De Cs. YSD यान्यन्नानि ये रसा. Cs [यान्यन्यानि ये रसा. R यान्यन्यानि ये रसा. We with A BC DEkv. ५० RSC lave no kampa-figure. We with ACKKV De. KË Vader. De feit changed to thi. We with A B CDRŠC. P Þomit the avagraha. We with <J tat changed to tent: l. We with PB. SP Jatai. We with 8. 13 मे पुष्टिं for पुष्टिम्, unnecessarily repcating मे when मे मम follows °दिपोष. J.