पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

xकरोतः [अ०४. सू.३१.] ५७५ एकोनविंशं काण्डम् । ३९५ सर्वस्य अनुज्ञाता प्रेरकः एतन्नामको देवः करत् कुर्यात् । करोतेः पञ्चमलकारः। "सविता वै प्रसवानाम् ईशे" इत्यादि श्रुतेः [ऐ० बा.१.१६] सवितुः सर्वस्य प्रेरकात्वाद् “देवो वः सविता प्रार्पयतु" इति [तै.सं० १.१.१.१] गवां व्याघ्रतस्करादिकृतनाशपरिहाराय प्रार्प-1 णमार्थनश्रुतेश्च सवितुः सर्वपशुस्फातिमार्थना युक्ता ॥ द्वितीया ॥ यो नौ अग्निगार्हपत्यः पशूनामधिपा असत् । औदुम्बरो वृषा मणिः सं मा सृजतु पुष्टया ॥२॥ यः । नः । अग्निः । गार्हऽपत्यः । पशूनाम् । अधिऽपाः । असत् । औदुम्बरः । वृषा । मणिः । सः । मा। सृजतु । पुष्ट्या ॥२॥ यो गार्हपत्योग्निः । गृहपतिना यजमानेन सह2 संयुक्तोनिर्गार्हपत्यः । यस्तत्संज्ञकोग्निरस्ति। “गृहपतिना संयुक्ते ज्यः” इति ज्यः ।स नः अस्माकं पशूनाम् गवावादीनाम् अधिपाः अधिष्ठाय पाता असत् भवेत्। अस्तेलेंटि अडागमः । "इह पशवो विश्वरूपा रमन्ताम् अग्निं गृहपतिम् अभिसंवसानाः" [तै ब्रा ३.७.४.५] इति मन्त्रवर्णाद् अग्निहोत्रे “पशून मे यच्छ” इति [आश्व २.३] गार्हप- त्यप्रार्थनाविधानाच्च पशूनाम् आधिपत्यं तस्य सिद्धम् । अतः गार्हपत्योग्निः पशून् पालयतु चोरादिभयेभ्यः । औदुम्बरः उदुम्बरविकारो वृषा अभि- मतफलवर्षको मणिः पुष्ट्या पोषे3ण शरीराभिवृद्धया आ सर्वतः सं सृ- जतु । पशूनां पुष्टिं करोत्वित्यर्थः । “ऊर्ग् वा उदुम्बरः” इति श्रुतेः [तै सं०२.१.१.६] अन्नरूपत्वात् पोषकत्वं तस्य युक्तम् ॥ तृतीया ॥ करीषिणीं फलवती स्वधामिरां च नो गृहे । १ D सुजतु पुष्टया changed to सृजनु पुष्टया. K KV,सृजतु पुष्टया. पुष्टया I. ITc with ABCDRŠC Pj. Prei. We with Ñ J. < स भवेत् । 18 प्रापण. 28 सत्यं for सह. 38 पोषण.