पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३९४ अथर्वसंहिताभाष्ये कार्षीद् 1वृष्ट्युत्पादनाय ततः अभिक्रन्दतो मेघात् [हिरण्ययो] हिरण्मयो बिन्दुः उदभूत । [ततः] तस्माद् उत्पन्नात हिरण्यबिन्दोः सकाशाद् दर्भो अजायत प्रादुर्बभूव । अनेन दर्भोत्पत्तिवर्णनेन दर्भमयस्य मणेरतिशयित- वीर्यत्वम् उक्तं भवति । हिरण्यय इति । ऋत्व्यवास्त्व्यवास्त्व" इत्यादिना हिरण्मयशब्दस्य मपटो मकारलोपो निपातितः॥ [इति ] चतुर्थेनुवाके चतुर्थं सूक्तम् ॥ औदुम्बरेण” इत्यादिकं पञ्चमं सूक्तम् । अस्य “कौबेरीं धनकाम- स्य धनक्षये च" [न क°१७] इति विहितायां कौबेर्याख्यायां महाशा- न्तौ औदुम्बरमणिबन्धने विनियोगः । उक्तं नक्षत्रकल्पे । “औदुम्बरेण मणिना पुष्टिकामाय वेधसा इत्यौदुम्बरं कौबेर्याम्” इति [न क°१९] ॥ तत्र प्रथमा॥ औदुम्बरेण मणिना पुष्टिकामाय वेधसा । पशूनां सर्वेषां स्फातिं गोष्ठे मे सविता करत् ॥ १॥ औदुम्बरेण । मणिना । पुष्टिऽकामाय । वेधसा । पशूनाम् । सर्वेषाम् । स्फातिम् । गोऽस्थे । मे। सविता । करत ॥१॥ औदुम्बरेण उदुम्बरनिर्मितेन मणिना । “तस्य विकारः" इति अण् प्रत्ययः । पुष्टिकामाय पशुपुत्रधनशरीरादिविषयं पोषं काम- यमानाय पुरुषाय तदर्थ वेधसा विधात्रा पुरा प्रयोगः कृतः । यद्वा वे-. धसा पुष्ट्यादिविधात्रा का मणिना पुष्टिकामाय तव रक्षां करोमीति व्याख्येयम् । अतः सर्वेषां गोमहिषाश्वाजगजादिरूपाणां पशूनाम् । च- तुष्पादाः पशवः । तेषाम् अथ वा द्विपादश्चतुष्पादश्च पशवः । उभ- यविधानां परिग्रहाय सर्वेषाम् इत्युक्तम् । तेषां स्फातिम् ।स्फा- यी वृद्धौ । क्तिनि यलोपः । अभिवृद्धिं मे मम गोष्ठे गवां नि- वासस्थाने। "घञर्थे कविधानम्" इति अधिकरणे कप्रत्ययः । 'अम्बाम्बगोभूमि” इत्यादिना मूर्धन्यादेशः । सविता प्रसविता स्फा- वासस्थाने । IS कृष्ट 28 om. धन.