पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ°४. सू°३०.] ५७४ एकोनविंशं काण्डम् । ३९३ कवचम् आहुः । देवा बृहस्पतिरिन्द्रश्च त्वां स्वस्वरक्षार्थं धारयन्ति इत्य- भिप्रायः । यत एवम् अतस्त्वं राष्ट्राणि [वां] धारयतो राज्ञो राज्यानि रक्षसि पालयसि पालय ॥ चतुर्थी ॥ सपत्नक्षयणं दर्भ द्विषतस्तपनं हृदः । मणिं क्षत्रस्य वर्धनं तनूपानं कृणोमि ते ॥ ४ ॥ सपत्नऽक्षयणम् । दर्भ । द्विषतः । तप॑नम् । हृदः । मणिम् । क्षत्रस्य । वर्धनम् । तनूऽपानम् । कृणोमि । ते ॥ ४ ॥ हे दर्भ ते त्ना त्वां सपत्नक्षयणम् शत्रूणां नाशकम् । "कृत्य- ल्युटो बहुलम्" इति कर्तरि ल्युट् ४ । तथा द्विषतः द्वेष्टुः हृदः हृदयस्य तपनम् संतापकं क्षत्रस्य बल1स्य वर्धनम् वर्धकम् । तथा तनू- पानम् तन्वाः शरीरस्य पातारं रक्षितारम् एवंमहानुभावं मणिं कृणोमि करोमि ॥ अथ वा रक्षाकामः पुरुषः संबोध्यते । हे राजन 2दर्भमणि सपत्नक्षयणादिसामर्थ्योपेतं ते तुभ्यं क्षत्रस्य वर्धनं तनूपानं च कृणोमीति संबन्धनीयम् ॥ पञ्चमी॥ यत समुद्रो अभ्यक्रन्दत् पर्जन्यो विद्युता सह । ततो हिरण्ययो बिन्दुस्ततो दर्भो अजायत ॥ ५ ॥ यत् । समुद्रः । अभिऽअक्रन्दत । पर्जन्यः । विद्युता । सह । ततः । हिरण्ययः । बिन्दुः । ततः । दर्भः । अजायत ॥ ५ ॥ यत् यस्मिन् स्थाने समुद्रः समुद्र्वन्ति अस्माद् आप इति समुद्रः । तादृशः पर्जन्यः मेघो विद्युता सह अभ्यक्रन्दत अभिक्रन्दनं स्तननम् अ- हवः ।. RA B C D R SCs हिरण्ययो बिंदु'. Do हिरण्ययो बिंदु° changed to हिरण्ययो बिंदु. P बिंदुः ।. We with Kkvki. 18 बलवर्धनं षधवर्धक for बलस्य वर्धनम् वर्धकम्. AS inserts a ते before दर्भ.