पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३९२ अथर्वसंहिताभाष्ये क्षणैः सामर्थ्यैः सपत्नान् अमुष्य राज्ञः शत्रून् जहि पराभव नाशय ॥ द्वितीया ॥ शतं ते दर्भ वर्माणि सहस्रं वीर्याणि ते । तमस्मै विश्वे त्वां देवा जरसे भर्तवा अदुः ॥२॥ शतम् । ते । दर्भ । वर्माणि । सहस्रम् । वीर्याणि । ते। तम् । अस्मै । विश्वे । त्वाम् । देवाः । जरसे । भर्तवा । अदुः ॥२॥ हे दर्भ मणिरूप ते तव मर्माणि पर्वाणि परकृतपीडाविषयभूतानि [शतं] सन्ति । तत्परिहाराय ते तव वीर्याणि सामर्थ्यान्यपि सहस्रम् स- हस्रसंख्याकानि सन्ति । तं तादृशं मर्मशताच्छादनसाधनवीर्योपेतं त्वाम् अस्मै रक्षादिकामाय राज्ञे विश्वे सर्वे देवाः जरसे जरा1निमितम् अस्य जरापरिहाराय भर्तवै भरणाय पोषणाय प्रयोजनाय अदुः दतवन्तः । अ- तः अमुष्य जरां परिहत्य भरणं कुर्वित्यर्थः । भर्तवै । तवैप्र- त्यय: ॥ तृतीया ॥ त्वामाहुर्देववर्म त्वां दर्भ ब्रह्मणस्पतिम् । त्वामिन्द्रस्याहुवर्म त्वं राष्ट्राणि रक्षसि ॥ ३ ॥ त्वाम् । आहुः । देवऽवर्म । त्वाम् । दर्भ । ब्रह्मणः । पतिम् । त्वाम् । इन्द्रस्य । आहुः । वर्म । त्वम् । राष्ट्राणि । रक्षसि ॥३॥ हे दर्भ मणे वां देववर्म आहुः देवानां रक्षणार्थ कवचम् आहुः । तथा वां ब्रह्मणस्पतिम् वेदस्य पालयितारम् एतन्नामानं देवम् 2आहुः वे- दविदितस्यापि रक्षाकारित्वात् । किं च त्वाम् इन्द्रस्य देवाधिपतेरपि वर्म

  • AŠanl Sayana's text: Anfor. We with BCDRR DCCs P PJ. AB

CR V C त्वमस्मै. De त्वमस्मै changeel to तमस्सै. PJ त्वम् ।. We with D K Ksv.

  • P fasa 1. We with Ể T. P भर्तवै।. We with kr. ABCD R SCs देव

fior "देव'. PJ देववर्म . We with K kv De#. [S' जरामित्त for जरानिमित्तम्. 2 Sayana's text reacl's त्वामाहुर्देववर्म त्वामाहुब्रह्मण- स्पतिं for our त्वामाहुर्देववर्म त्वां दर्भ ब्रह्मणस्पतिम्.