पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पिंश । “ ३ अथर्वसंहिताभाष्ये पिंश । दर्भ । सऽपत्नान् । मे। पिंश । मे। पृतनाऽयतः । पिंश । मे । सर्वान् । दुःऽहार्दः। पिंश । मे। द्विषतः । मणे ॥९॥ पिंश। पिंश अवयवे । मुचादित्वाद् नुम् ॥ दशमी ॥ विध्य दर्भ सपत्नान् मे विध्य मे पृतनायतः । विध्य मे सर्वांन् दुर्हार्दो विध्य मे द्विषतो मणे ॥ १० ॥ विध्ये । दर्भ । सऽपत्नान् । मे । विध्य । मे । पृतनाऽयतः । विध्य । मे । सर्वान् । दुःऽहार्दः । विध्यं । मे। द्विषतः । मणे ॥१०॥ विध्य । व्यध ताडने । देवादिकः । 'ग्रहिज्या" इत्यादिना संप्रसारणम् ॥ इत्येकोनविंशे काण्डे चतुर्थेनुवाके द्वितीयं सूक्तम् ॥ निक्ष दर्भ" इत्यादिकं [तृतीयं] सूक्तम् । अस्य ऐन्द्र्यां महाशान्तौ दर्भमणिबन्धने विनियोगः पूर्वसूक्तेन सह उक्तः ॥ तत्र प्रथमा॥ निक्ष दर्भ सपत्नान् मे निक्ष मे पृतनायतः। निक्ष मे सर्वान् दुर्हार्दो निक्ष मे द्विषतो मणे ॥१॥ निक्ष । दर्भ । सऽपत्नान् । मे । निक्ष । मे। पृतनाऽयतः । निक्ष । मे । सर्वांन् । दुःऽहार्दः । निक्ष । मे। द्विषतः । मणे ॥१॥ निक्ष चुम्ब । निक्ष चुम्बने इति धातुः । शिष्टं पूर्ववत् ॥ द्वितीया ॥ तृन्द्धि दर्भ सपत्नान् मे तृन्धि में पृतनाय॒तः । PACDSC: Face H. De forze to cluanged to fast are. We with BKKR; and the other accents in the verse accordingly. ĎTERET. ABCDR ŠCs निक्ष दर्भ, throughout the verse. D निक्ष द° changed to निक्ष द. PJ निक्ष ।. We with KKVĚ.