पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये उद्यन् त्वचमिव भूम्याः शिर एषां वि पातय ॥४॥ भिन्द्धि । दर्भ। सऽपत्नानाम् । हृदयम् । द्विषताम् । मणे। उत्ऽयन् । त्वर्चम्ऽइव । भूम्याः । शिरः । एषाम् । वि। पातय ॥४॥ हे दर्भ मणे द्विषताम् द्वेषं कुर्वतां सपत्नानां हृदयं भिन्द्धि । ह्रद- यभेदनमात्रेण 1अपरितुष्यन्नाह । उद्यन् ऊर्ध्व गच्छन् भुजादिप्रदेशम् अ- धितिष्ठन् वं भूम्यास्वचम् [इव] तृणगुल्मौषध्यायधिष्ठानभूतां यथा 2त- क्षणेन निपातयति गृहादिनिर्माणार्थ लोके एवम् एषां सपत्नानां शिरः । जात्येकवचनम् । शिरांसि वि3 पातय अध:पतितानि कुरु ॥ पञ्चमी॥ भिन्द्धि दर्भ सपत्नान् मे भिन्द्धि में पृतनायतः। भिन्द्धि मे सर्वान् दुर्हार्दो भिन्द्वि मे द्विषतो मणे ॥५॥ भिन्द्धि । दर्भ । सऽपत्नान् । मे । भिन्द्धि । मे। पृतनाऽयतः । भिन्द्धि । मे। सर्वान् । दुःऽहादः। भिन्द्धि । मे। द्विषतः । मणे ॥५॥ पृतनायतः पृतना सेना । ताम् आत्मन् इच्छन्तः पृतनायन्तः । तान् भिन्द्धि । “सुप आत्मनः क्यच्" इति क्यच् । सर्वविधीनां छ- न्दसि विकल्पितवाद् 4आकारलोपाभावः । तान् भिन्द्धि। भि- दिर् विदारणे । दुर्हार्दः दुष्टहृदयान्। हृद इदं हार्दम् । "त- स्पेदम्" इति अण् । हार्द करोति । “तत् करोति" इति णिच् । हार्दयतेः क्विपि “णेरनिटि" इति णिलोपः । स्पष्टम् अन्यत् ॥ षष्ठी ॥ छिन्द्धि दर्भ सपत्नान् मे छिन्द्धि में पृतनायतः । १ त्वच इव. So we with BCDKKR$PPJ. Siyana's text : fagrera. Vfwand fa. Datater. We with A Ể CKKRSV De Cs. 1 S omits 3 in rufig. 28 HOTT. 3 So S', though the text in S' has fancy. 4S TT. 5 So S, repcating unnecessarily. भि-