पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०४. सू०२:.] ५७२ एकोनविंशं काण्डम् । ३०५ सर्वम्1 गृहक्षेत्रपश्वादिकं धर्म इव आदित्य इव । यद्वा "यद् घ्रा2 इत्यपतत तद् धर्मस्य धर्मत्वम्" इति [तै आ० ५.१.५] श्रुतेः धर्मः प्रवर्ग्यः । स इव अभीन् अभयान् संतापयन् भिन्द्वीति संबन्धः॥ तृतीया॥ धर्म ईवाभितपन् दर्भ द्विषतो नितपन् मणे। ह्रदः सपात्नानां भिन्द्धीन्द्र इव विरुजं बलम् ॥ ३ ॥ धर्मःऽईव । अभिऽतपन् । दर्भ । द्विषतः । निऽतपन् । मणे । ह्रदः। सऽपत्नानाम् । भिन्द्धि । इन्द्रःऽइव । विऽरुजन् । बलम् ॥३॥ हे दर्भ । दर्भविकारे दर्भशब्दः । हे दर्भनिर्मित3 मणे त्वं धर्म इव । उक्तो धर्मशब्दार्थः निदाघकालो वा । स इव द्विषतः द्वेषं कुर्वतः श- त्रोर्हदयम् । यद्वा। कर्मणि षष्ठी। द्विषन्तम् शत्रुम् अभि- तपन् अभितः संतापं कुर्वन् तथा नितपन् नितरा संतापयन् भिन्द्धि भेदं कुरु । दार्ढ्याय उक्तमेवार्थम् पुनराह । सपत्नानाम् राष्ट्रादिविषये समानः पतिर्येषां ते सपत्नाः । राष्ट्रविषये स्वेषामपि पतित्वं कामयमाना इत्यर्थः। सपत्नीव सपत्नः । “व्यन्त्सपत्ने' इति निपातनात्

साधु। तेषां बलम् शारीरं बाह्यं च इन्द्र इव विरुजन् स यथा

शत्रूणां बलं विरुजति एवं विरुजन् नाशयन् तेषां हृदः हृ4दयानि भिन्द्धि विदारय । भिदिर् विदारणे । चतुर्थी ॥ भिन्द्धि दर्भ सपत्नानां हृदयं द्विषतां मणे । १BD तप दर्भ. K KV C तपै दर्भ. Pतपयन् ।. We with AC R DEPJ. २D R Dc Cs PŮJ FT. We with C š. ३ A B C D E Cs सपत्नानाभि. De सपत्नानां changed to सपत्नानां. 3 सपत्नान् भि. PJ सऽपनान् । आ। for सऽपत्नानाम्. We with KKVĖ. ४ BCs वीरुजं. D विरुजन् changed to विरुजं. We witli A B C D Ek ŠV. PÞJ fasal. Sayaņa's text: ferestra. Poartaal. Wc with PJ. 1 Slyana's text too has e 2S & for 23. 38दर्भनिमित्त. 43 हृदया- दिनिनिधि. इत्यर्थः । " साधुः ।