पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३०४ अथर्वसंहिताभाष्ये तत्रप्रथमा॥ ¢¢ इमं बन्धामि ते मणि दीर्घायुत्वाय तेजसे । दर्भ संपत्नदम्भनं विषतस्तपनं हृदः ॥ १॥ इमम् । बन्धामि । ते। मणिम् । दीर्घायुऽत्वाय । तेजसे । दर्भम् । सपत्नऽदम्भनम् । द्विषतः । तपनम् । हृदः ॥१॥ हे विजयबलादिकाम ते तव इमं मणिं दर्भमयं बध्नामि । किम- र्थम् । दीर्घायुष्ट्वाय यथा वं दीर्घायुर्भवसि तथाभावाय तेजसे अतिश- यिततेजोलाभाय । मणिं विशिनष्टि । दर्भम् । विकारे प्रकृतिशब्दः । दर्भ- निर्मितं1 मणिं सपत्नदम्भनम् शत्रूणां हिंसकं सपत्नीवत् सपत्नः । न्त्सपत्ने " इति निपातनात् साधुः । दम्भनम् इति । कृल्यल्युटो बहुलम्"" इति कर्तरि ल्युट्। द्विषतः द्वेषं कुर्वतः शत्रोः [हृदः] हृदयस्य तपनं तापकम् ॥ द्वितीया ॥ द्विषतस्तापयन् ह्रदः शत्रूणां तापयन् मनः । दुर्हार्दः सर्वास्र्वं दर्भ धर्म इवाभीन्त्सतापर्यन् ॥ २ ॥ द्विषतः । तापयन् । हृदः । शत्रूणाम् । तापर्यन् । मनः । दुःऽहार्दः । सर्वान् । त्वम्। दुर्भ। धर्म:ऽईव। अभीन्।समऽतापयन् ॥२॥ हे दर्भमणे त्वं द्विषतः द्वेषं कुर्वतः शत्रोः हृदः हृदयं तापयन् संतप्तं कुर्वन् तथा शत्रूणां मनश्च तापयन् एवं दुर्हार्दः दुष्टहृदयस्य । हृदं इदं2 हार्दम् । “तस्येदम्" इति अण् । हार्दं करोति । “तत करोति" इति णिच् । हार्दयतेः क्विपि “णेरनिटि" इति णिलोपः । तस्य A B C D K KR SC दर्भ सपत्न. De दर्भासपत्न' (sic ),changed to दर्भ संपत्न. PJ दर्भम् ।. * दर्भम्। 3D 3 Dc Cs Fri. Wo withi CRPŮJ. ३ A दुर्हाः सर्वा- स्त्वं (corrected into सर्वस्त्वं). D दुर्हादः सर्वस्त्वं. RCs दुरिहाई सर्वोस्त. Sayana's text: दुर्दिः सर्वस्त्वं. We with Bc k sv DeP#. 18 दर्भनिमित्तं. 2 हृदय इदं. तस्य