पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

1 [अ०४. सू०२४.] ५७२ एकोनविंशं काण्डम् । ३७३ इन्द्राग्नी इति । रक्षताम् । मा। पुरस्तात् । अश्विनौं । अभितः । शर्म । यच्छताम्। तिरश्चीन् । अया । रक्षतु । जातऽवेदाः । भूतऽकृतः । मे। सर्वतः । सन्तु वर्म ॥१५॥ त्रयोदशी ॥ आदित्यानां द्युस्थानत्वाद् दिवः सकाशाद् रक्षणम् उ. चितम् । अग्नीनां च पृथिव्यायतनत्वात् तस्याः सकाशाद् रक्षण1प्रार्थना । अथ वा "असपत्नम्" इत्यारभ्य "रक्षन्त्वग्नयः” इत्यन्त एको मन्त्रः । तथा सति रक्षन्त्विति2 पदम् अर्थानुसारेण रक्षत्विति विपरिणमयितुं सु- शक3म् । उत्तरत्र छन्दोन्तरत्वाद् नायम् अर्धर्चस्तत्र संबध्यते ॥ चतुर्दशी ॥ इन्द्राग्नी मा मां पुरस्ताद् रक्षताम् पालयताम् । तथा अश्विनौ देवौ अभितः सर्वतः सर्वासु दिशु [शर्म] सुखं यच्छताम् । एवं तिरश्चीन् तिर्यगञ्चनान् अस्मान् । x तिरःपूर्वाद् अञ्चतेः "अञ्चतेश्योपसंख्यानम्" इति डीप् । “अचः" इति अकार- लोपः। यद्वा तिरश्चीः तिर्यग्दिशो जातवेदाः जातप्रज्ञो रक्षावि- षयप्रज्ञावान् 4अग्निः रक्षतु । तिर्यक्प्रदेशेभ्यो रक्षत्वित्यर्थः । अग्नी रक्षतु इत्यत्र “ढ्रलोपे पूर्वस्य दीर्घोऽणः" इति साहितिको दीर्घः । एवं भूतकृतः भूतानां पृथिव्यादीनां कर्तारः पञ्चभूताभिमानिदेवा अग्न्यादयो मे सर्वतः वर्म वारकं कवचं सन्तु भवन्तु ॥ इत्येकोनविंशे काण्डे चतुर्थेनुवाके प्रथमं सूक्तम् ॥ "इमं बधामि ते मणिम्" इति सूक्तत्रयम् “ऐन्द्रीं जयवलवृष्टिपशु- कामस्य परचक्रागमे च" इति [न क०१७] विहितायाम् ऐन्त्र्यास्यायां महाशान्तौ दर्भमणिबन्धने विनियुक्तम् । सूत्रितं हि नक्षत्रकल्पे । “इमं "बन्धामि ते मणि् दीर्घायुत्वाय तेजसे [१९.२४] इति दर्भमणिम् ऐन्ध्र्याम् 'अभीवर्तेन[१.२९] इति रथनेमिमणिं माहेन्द्र्याम्" इति [न क°१९] ॥ See foot-notes to XIX. 16. 2. 15 रक्षणा. 28 रक्षत्वित्ययमानु. 33 सुशकः. 1 S. S'. The grammatical note explains neither forcafta nor forexit:. See comincntary on 16. 2 a bore.