पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३.२ अथर्वसंहिताभाष्ये भिधानाः ते देवा इदं हविर्जुषध्वम् ॥ तथा ये देवाः पृथिव्याम् ए- कादश स्थ भवथ । अत्रापि त्रयाणां न्यूनताम् अनाह्रत्य एवम् उक्तम् । गतम् अन्यत् ॥ द्वादशी ॥ असपत्नं पुरस्तात् पश्चान्नो अभयं कृतम् । सविता मा दक्षिणत उत्तरान्मा शचीपतिः ॥ १४ ॥ असपत्नम् । पुरस्तात् । पश्चात् । नः । अभयम् । कृतम् । सविता । मा। दक्षिणतः । उत्तरात् । मा। शचीऽपतिः ॥१४॥ अत्र यद्यपि पुर1स्तात् पश्चाच्च रक्षाविषये देवते न निर्दिष्टे तथापि कृ- तम् इति द्विवचनसामर्थ्याद् उत्तरार्धे वक्ष्यमाणौ सवितृशचीपती परि- गृह्येते । हे उक्ते देवते युवां में मह्यं पुरस्तात् पूर्वस्यां दिशि पश्चात् प्रतीच्यां च अभयम् भयराहित्यम् असपलं यया भवति तथा कृतम कृणुतम् । अथ वा पुरस्ताद् असपत्नम् सपत्नाभावं कृतं पश्चाद् अ- भयं च कृतम् । जिगीषोः पुरतः शत्रूणाम् अभाव आशास्यः पश्चाच्च पाणिग्राहाद् भयाभावाय अभयम् आशास्यम् । अतः पुरस्ताद् अस- पत्नं कृणुतं पश्चाद् अभयं कृणुतम्2 इति विभागः । तथा सविता मा 3मां दक्षिणतः दक्षिणदिक्सकाशाद् दक्षिणदिग्गताद् भयात् सविता4 रक्षतु इत्यध्याहर्तव्यम् । उत्तरमन्त्रे भूम्या रक्षन्त्वग्नय इति रक्षणक्रियासंबन्धात् । एवम् उत्तरात उत्तरदिग्गताद् भयात् । "उत्तराधरदक्षिणाद् आ- तिः" इति आतिमत्ययः । मा 5मां शचीपती रक्षतु ॥ दिवो मादित्या रक्षन्तु भूम्या रक्षन्त्वग्नयः । इन्द्राग्नी रक्षतां मा पुरस्तादश्विनावभितः शर्म यच्छताम् । तिरश्चीनघ्न्या रक्षतु जातवेदा भूतकृतो मे सर्वतः सन्तु वर्म ॥१५॥ दिवः । मा। आदित्याः । रक्षन्तु । भूम्याः । रक्षन्तु । अमः। See foot-notes to XIX. 16. 1. See foot-notes to X[X. 16. 2. IS तत्पुरस्तात्तत्पुरस्तात् for पुरस्तात्. 28 कृणुतविभागः, 38 मा मा मां for मा मां. 4 So S. 55 यन्मां for मा मां.