पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ°४. सू०२७.] ५७१ एकोनविंशं काण्डम् । ३.१ तेन अवस्थितेन हिरण्येन स्वमुख्यांशभूतेन अयं मणिः वीर्याणि स्वेन सह अवस्थितानि वीर्याणि त्रयस्त्रिंशदेवतानां त्रिविधानि सामर्थ्यानि कृण- वत् मणिधारके पुरुषे करोतु ॥ यद्वा हिरण्यरजतलोहानां त्रयाणां यानि आयुर्वर्धनैश्वर्यकरत्वशत्रुजयाख्यानि अनन्यसाधारणानि त्रीणि वीर्याणि स- न्ति तानि अन्येषां मा भूवन्निति बुद्ध्या प्रियायमाणाः अप्सु अन्तः गो- पनम् अकुर्वन् । तानि अस्मिंश्चन्द्रे प्रसिद्धे चन्द्रमसि चन्द्रस्य अम्म- यत्वात् तत्र यद्हिरण्यं निहितं तेन हिरण्येन अयं मणिः उक्तविधानि त्रीणि वीर्याणि कृणवत् इति । प्रियायमाणा इति । “कर्तुः क्यङ् सलोपश्च" इति क्यङ् । “अकृत्सार्वधातुकयोः” इति दीर्घः ५ ॥ ये देवा दिव्येकादश स्थ ते देवासो हविरिदं जुषध्वम् ॥ ११ ॥ ये। देवाः । दिवि । एकादश । स्थ । ते । देवासः । हविः । इदम् । जुष- ध्वम् ॥११॥ ये देवा अन्तरिक्ष एकादश स्थ ते देवासो हविरिदं जुषध्वम् ॥ १२ ॥ ये । देवाः । अन्तरिक्षे । एकादश । स्थ । ते । देवासः । हविः । इदम् । जुषध्वम् ॥ १२ ॥ ये देवाः पृथिव्यामेकादश स्थ ते देवासो हविरिदं जुषध्वम् ॥ १३ ॥ ये। देवाः । पृथिव्याम् । एकादश । स्थ । ते । देवासः । हृविः । इदम् । जुषध्वम् ॥ १३ ॥ एकादशी ॥ ये देवा दिव्याः दिवि भवाः । “भवे छन्दसि" इति यः। दिवि धुलोके आदित्याख्या गणा एकादश स्थ भवध । यद्यपि ते द्वादश तथापि एकादशवाभिधानं न विरुध्यते । अधिकसं- ख्या2या न्यूनसंख्यायाः संभवात् । ते देवासः देवाः इदं हविः हूयमानम् आज्यं जुषध्वम् सेवध्वम् ॥ एवं ये देवा अन्तरिक्ष एकादश स्थ रुद्रा- Pदेवासः।. We with PJ. I Sayana's text of the 11th mantra reads: ये देवा दिव्या दिव्येकादश स्थ. It reinds the 12th and 13th mantras all right like us. AS संख्याया.