पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३०० अथर्वसंहिताभाष्ये तवन्तस्तैः पथिभिर्मार्गः स्वयमपि गत्वा अन्वविन्दत्1 अन्विष्य लब्धवान् । यद् देवनिधिरूपं हिरण्यं त्रिवृतः उक्तप्रकारेण त्रिविधा आपः त्रिवृद्भिः साधनैर्जुगुपुः अरक्षन् तास्त्रिवृत आपः त्रिवृद्भिः हिरण्यरजतलोहरूपेण त्रिविधैः स्वरूपैस्त्वा त्वां रक्षन्तु पालयन्तु ॥ दशमी ॥ त्रयस्त्रिंशद् देवतास्त्रीणि च वीर्याणि प्रियामाणा जुगुपुरप्स्वन्तः । अस्मिंश्चन्द्रे अधि यद्धिरण्यं तेनायं कृणवद् वीर्याणि ॥ १० ॥ त्रयःऽत्रिंशत् । देवताः । त्रीणि । च । वीर्याणि । प्रियंऽयमाणाः । जुगुपुः । अपऽसु । अन्तः। अस्मिन् । चन्द्रे । अधि । यत् । हिरण्यम् । तेन । अयम् । कृणवत् । वी- र्याणि ॥१०॥ [त्रयस्त्रिंशद् देवताः] “अष्टौ वसव एकादश रुद्रा द्वादशादित्याः प्र- जापतिश्च वषट्कारश्च" इति ऐतरेयब्राह्मणे [ऐ ब्रा १.१०] समाम्ना- ताः । बृहदारण्यके तु “अष्टौ वसव एकादश रुद्रा द्वादशादित्याः" इत्यभिधाय “इन्द्रश्च प्रजापतिश्च" [बृ आ°३.९.३] इति वषट्कारस्थाने इन्द्र आम्नातः । ता अत्र त्रयस्त्रिंशद् देवता इत्यनेन परिगृह्यन्ते । ता देवताः त्रीणि च वीर्याणि । अत्र चशब्दः पूर्वमन्त्रोक्तम् “आपो हिरण्यं जुगुपुः” इत्युक्तं हिरण्यं समुच्चिनोति । त्रीणि वीर्याणि च कायिकवाचिकमा- नसभेदेन त्रिविधानि च सामर्थ्यानि प्रियायमाणाः प्रियमिव आचरन्त्2यः । तेषु अत्यर्थं प्रियं कुर्वाणा इत्यर्थः । अप्स्वन्तर्जुगुपुः उदकेषु मध्ये य- था अन्ये नापहरेयुस्तथा उदकेषु मध्ये गोपनम् अकुर्वन् । अस्मिन् परिदृश्यमाने चन्द्रे अधि आह्लादक उदके यत् हिरण्यम् अस्ति । अप्सु हिरण्यावस्थानं पूर्वमन्त्रे “आपो हिरण्यं जुगुपुः” इत्याम्नानात् सिद्धम् । PA ŚCDKÅRŠ V D&Cs fratgarunt. PP J fart i Hrarti. ABCD RCs a fur 9. We with KŘ S V Dc. 1 Strafarta. Sâyana's text also has: zfiglfafazaferº. 2 Sscerns to real जापतिश्च वषट्कारश्च आचरंतः.