पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०४. सू०२७.] ५७१ एकोनविंशं काण्डम्। ३७९ हे राजन् मणिधारक त्वम् आयुष्कृताम् । परेषाम् आयुरभिवृद्धिक- र्तार आयुष्कृतः । यद्वा तपआदिना दीर्घम् आयुः कुर्वन्ति संपादय- न्तीति आयुष्कृतः चिरकालजीविनः पूर्वे महर्षयः आयुष्कृतः । तेषाम् आयुषा । तेषां यादृग् आयुस्तादृशेनायुषेत्यर्थः । अथ वा तैर्दत्तेन आयुषा त्वं जीव । तस्माद् आयुष्मान् । भूमार्थे मनुप्। दी- र्घायुष्यः । भवेति शेषः1 । उक्तवैपरीत्यं निराकरोति । [जीव] मा मृथाः मृतिं मा प्राप्नुहि । मृङ् प्राणत्यागे । “माङि लुङ्" । "ह्रस्वाद् अङ्गात्" इति सिचो लोपः। 2आत्मन्वताम् स्थिरेण आत्मना त- द्वन्तः तेषाम् 3आत्मन्वताम् । x“अनो नुट्" इति मतुपो नुडा- गमः। तेषां प्राणेन त्वं जीव । किं च मृत्योः मारकस्य देवस्य वशं मा उद् अगाः मोङ्गच्छ मा प्राप्नुहि ॥

नवमी॥ देवानां निहितं निधिं यमिन्द्रोन्वविन्दत पथिभिर्देवयानैः । आपो हिरण्यं जुगुपुस्त्रिवृद्भिस्तास्त्वा रक्षन्तु त्रिवृत्तां त्रिवृद्भिः ॥ ९ ॥ देवानाम् । निहितम् । निऽधिम् । यम् । इन्द्रः । अनुऽअविन्दत । पथिऽ- भिः । देवऽयानैः। आपः । हिरण्यम् । जुगुपुः । त्रिवृतऽभिः। ताः । त्वा । रक्षन्तु । त्रिवृता। त्रिवृतऽभिः ॥ ९॥ यं प्रसिद्धं निहितम् निक्षेपत्वेन संगोप्य स्थापितं हिरण्याख्यं [देवानां] निधिम् इन्द्रो देवः देवयानैः देवमार्गैः देवा यैर्मार्गैर्गत्वा निधिं निहि- V fest (result of following Siyaņa with ignorance of accents!). A B CDKÄS fiatº. R Dc ofiarº. Cs sagrº. PÓJ ŠEI. We with Siyaņai. BC gaat q°. K Ř De faqatfesyo. DRCs qaaifea. Šv zako. PJfYSą- तात् । त्रिऽवृताः। 13 दीर्घायुष्यो मतुपो भवेति शेषः. 28 आत्मत्वताम्. 38 आत्मतां वा for आत्मन्व- ai. Probably a lucus corruptus. Some letters or words may have dropped away between A and at, and the at may be quite correct, a different interpretation) of Bremerat being intended.