पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३७६ अथर्वसंहिताभाष्ये सप्तमी॥ प्राणेनाग्निं सं सृजति वातः प्राणेन संहितः । प्राणेन विश्वतोमुखं सूर्य देवा अजनयन् ॥ ७ ॥ प्राणेन । अग्निम् । सम् । सृर्जति । वातः । प्राणेन । समाहितः । प्राणेन । विश्वतःऽमुखम् । सूर्यम् । देवाः । अजनयन् ॥ ७ ॥ प्राणरक्षाम् आशास्य इदानीं तस्य माहात्म्यं वर्णयति । प्राणेन मुख- स्थेन वायुना अग्निं सं सृजति संयोजयति समिन्धनकर्ता पुरुषः । यत एवम् अतः प्राणो रक्षितव्यः । किं च वातः बाह्यो वायुः प्राणेन मु- खस्थेन सह संहितो भवति । अनेन तयोरेकत्वम् उक्तं भवति । अपि च प्राणेन सूत्रात्मरूपेण ब्रह्मणा विश्वतोमुखम् । सर्वत्र प्रकाशकत्वात् सूर्यो विश्वतोमुख1 इत्युच्यते । यद्वा मां प्रत्युदगात् इति प्रतिपुरुषम् आ- भिमुख्यबुद्धिसंभवाद् विश्वतोमुखत्वव्यवहारः । तादृशं सूर्य देवा इन्द्राद्या अजनयन् पुरा उदपादयन् । स्वस्वप्रयोजनाय लब्धवन्त इत्यर्थः । एवं महानुभावः प्राण इति प्राणस्य अवश्यरक्षणं युक्तम् इत्यभिमायः ॥ अष्टमी॥ आयुषायुःकृतो जीवायुष्मान् जीव मा मृथाः । प्राणेनात्मन्वतां जीव मा मृत्योरुदगा वशम् ॥ ७ ॥ आयुषा । आयुःऽकृताम् । जीव । आयुष्मान् । जीव । मा। मृथाः । प्राणेन । आत्मनऽवताम् । जीव । मा । मृत्योः । उत् । अगाः । वशम् ॥॥ Pasifat i. We with ÚJ. V rucat with Sâyana's text. We with A BCDKÝRS DEC. ACDſ V De Csonant. C is somewhat doubtful. B R S praat which may, however, he inten«lcd for oziraat. Sayaņa’s text reads: मन्वतां. ABCD KÄRŠ V. PJ firet. We'with Dc B. ABC$Cs OT 72 ( without any accent-marks). DR TTT ( without any accent-marks ). De opt azi corrected to opt azt. Pagal. J ARTE 1. We with K Ř V and De as Pubsctguently corrected, and #. ६PPJ आत्मऽत्वाम् । 18 मुख for विश्वतोमुख. y