पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०४. सू०२७.] ५७१ एकोनविंशं काण्डम् । ३७७ अग्नेश्चन्द्रस्य सूर्यस्य मा प्राणं मायिनो दभन् ॥ ५॥ घृतेन । त्वा । सम् । उक्षामि । अग्ने। आज्येन । वर्धयन् । अग्ने। चन्द्रस्य । सूर्यस्य । मा । प्राणम् । मायिनः । दभन् ॥ ५॥ हे अग्ने त्वा त्वाम् आज्येन होमसाधनेन वर्धयन् अभिवृद्धं कुर्वन् क- र्तुम् इच्छन् अहं [घृतेन] सम् उक्षामि सम्यक् सिञ्चामि । बह्निभिर्घृ- तधाराभिरक्तं करोमि । अग्नेर्घृतेन समुक्षितस्य चन्द्रस्य ओषधिवनस्पत्या- द्याह्लादकारिणश्च सूर्यस्य देवस्य च अनुग्रहात् हे मणिं बिभ्रत् पुरुष तव प्राणं मायिनः मायावन्तोऽसुरा मा दभन् दम्भनं मा कुर्वन्तु । मापहरन्तु इत्यर्थः। दन्भु दम्भे । अस्य लुङि 1अङि रूपम् ॥ षष्ठी॥ मा वः प्राणं मा वोडपानं मा हरो मायिनो दभन् । भ्राजन्तो विश्ववेदसो देवा दैव्येन धावत ॥ ६ ॥ मा । वः । प्राणम् । मा। वः । अपानम् । मा। हरः । मायिनः ।

दभन्। भ्राजन्तः । विश्वऽवेदसः । देवाः । दैव्येन । धावत ॥ ६ ॥ अत्र राज्ञो मणिबन्धने विनियोगाद् राजनि पूजार्थं बहुवचनस्य यु- क्तत्वाद् अत्र व इति बहुवचननिर्देशः । यद्वा राज्ञः पुत्रभृत्यादिकम् अ- पेक्ष्य बहुवचनम् । हे राजादयः वः युष्माकं प्राणं मायिनो मायावन्तोऽ- सुरा मा दभन् हिंसां मा कुर्वन्तु । तथा वः अपानमपि मा द- भन् । एवं हरः शत्रुबलापहारकं तेजो मा दभन् । तदर्थम् हे देवाः अग्निचन्द्रसूर्याः भ्राजन्तः दीप्यमाना विश्ववेदसः विश्वस्य सर्वस्य वेत्तारो विश्वधना वा । वेद इति धननाम । यूयं दैव्येन देवसंबन्धिना रथादि- ना साधनेन वेगेन वा धावत प्राणरक्षार्थम् इति शेषः । व्येनेति । "देवाद् यञ ञो" इति यञ् । ? Cfararatat gar. We with ABDKÄRŠ V DC Cs. 2 SO PÔJ. 18 afs. ४८