पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये त्रीन् । नाकान् । त्रीन् । समुद्रान् । त्रीन् । ब्रध्नान् । त्रीन् । वैष्टपान्। त्रीन् । मातरिश्वनः । त्रीन् । सूर्यान् । गोप्तृन् । कल्पयामि । ते ॥४॥ हे हिरण्यरजतलोहात्मकत्रिवृन्मणिधारक पुरुष त्रीन् 1नाकान् । उक्त- प्रकारेण गन्तृत्रैविध्याद् गन्तव्यस्य नाकस्य स्वर्गस्यापि त्रैविध्यम् । ना- स्मिन् अकं दुःखम् अस्तीति तव्द्युत्पत्तिः । “पुण्यकृतो ह्येव तत्र ग- च्छन्ति" इति वचनात् । तान् ते गोप्तुन् कल्पयामि त्रिवृन्मणिद्वारा रक्षकान् करोमि । एवम् उत्तरत्रापि द्रष्टव्यम् । त्रीन् समुद्रान् समुद्र- वन्ति अस्माद् आप इति समुद्राः अन्तरिक्षविशेषाः । तान् त्रीन् । अथ वा प्रसिद्धा एव समुद्राः परिगृह्यन्ते । उत्तरसमुद्रस्य दुरन्तत्वात् त्रीन् इत्यभिहितम् । तान् ते गोप्तृन् कल्पयामि । त्रीन् 2बन्धान् बन्धः सर्वस्य बन्धः आधारभूत आदित्यः । तस्य त्रैविध्यं प्रकाश्यधुस्थानत्रैविध्याद् द्र- ष्टव्यम् । त्रीन् वैष्टपान् । विष्टपान् इत्यर्थः । बन्धस्य त्रित्वाभिधानात् तदाश्रयविष्टपानामपि त्रैविध्यम् । यद्वा विष्टपशब्दो भुवनसामान्यवचनः 'विष्टपं भुवनं जगत् इत्यभिधानात् । विष्टपानां त्रैविध्यात् तत्रत्याः प्राणिनोपि देवमनुष्यपित्रात्मकत्वेन3 त्रिविधास्तान्4 । त्रीन् मातरिश्वनः ऊ- र्धाधस्तिर्यग्गतिभेदेन वा संचाराश्रयभूतलोकानां त्रित्वेन वा मातरि- श्वापि5 त्रिविधः तान् । मातरि अन्तरिक्षे श्वसिति चेष्टते इति मात- रिश्वा इति तच्छब्दव्युत्पतिः । त्रीन् सूर्यान् प्रकाश्यानां लोकानां6 त्रि- त्वात् सूर्या अपि त्रय इत्युच्यन्ते । यद्वा रश्मिमण्डलतदधिष्ठातृदेवताभेदेन सूर्यस्य त्रित्वम् । त्रिवृन्मणिं योजयन् अहं ये ये त्रैविध्योपपन्ना नाकाद्याः सन्ति तान् सर्वान् [ते] तव गोप्तृन् कल्पयामि ॥ पञ्चमी॥

घृतेन त्वा समुक्षाम्यग्न आज्येन वर्धय॑न् । १PPJ नाकम् ।. २J अनान् । corrected into अनन् ।. P अनन् । B into बनान् ।, ३ PJ मातरिश्वनः ।. We with K#. Y DR SC समुंख्याम्य. समु. Tº. We with AKKV De. 18 लोकान् for नाकान्. 2 Shyam's text too बन्धान्. 38 inserts aforait again after देवमनुष्यपित्रात्मकत्वेन. 48 त्रिविधान्. 58 मातरिश्वाभित्रि. 68 लोकान्.