पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०४. सू०२७.] ५७१ एकोनविंशं काण्डम् । ३७३ चतुर्थेनुवाके सप्त सूक्तानि । तत्र “गोभिष्ट्वा पातु" इति प्रथमं सू- क्तम् । अनेन "प्राजापत्यां प्रजापशुकामस्य प्रजाक्षये च" [न क°१७.] इति विहितायां प्राजापत्याख्यायां महाशान्तौ सुवर्णरजतलोहमयमणिबन्धनं कुर्यात् । उक्त हि नक्षत्रकल्पे । 'गोभिष्ट्वा पात्वृषभः [१९. २७] " इति त्रिवृतं प्राजापत्यायाम अक्षितास्ते [६.१४२.३] इति 1यवमणि् "सावित्र्याम्" इति [न .क १९.] ॥ 46 तत्र प्रथमा ।

गोर्भिष्ट्वा पात्वृषभो वृषा वा पातु वाजिभिः । वायुष्ट्वा ब्रह्मणा पाविन्द्रस्त्वा पात्विन्द्रियैः ॥ १॥ गोर्भिः । वा । पातु । ऋषभः । वृषो । त्वा । पातु । वाजिऽभिः । वायुः । वा । ब्रह्मणा । पातु । इन्द्रः । त्वा । पातु । इन्द्रियैः ॥ १॥ हे त्रिवृन्मणिधारक पुरुष त्वा त्वां वृषभः सेक्ता प्रबलः पुंगौर्यूथपतिः गोभिः स्वयूथ्याभिः सह पातु रक्षतु । गोषु बहून्यपत्यानि उत्पाद्य त- त्समृद्धिकरणद्वारा त्वां समृद्धं करोत्वित्यर्थः । अथ वा वृ2षभो वृषभ- 3देवता स्वीयाभिगोभिर्देवताभिः सह स्वयम् अरिष्टेभ्यः पातु । गो- भिष्ट्वेत्यत्र “युष्मत्तत्ततक्षुःष्वन्तःपादम्' इति मूर्धन्यादेशः ४ । तथा वृषा प्रजननसमर्थोऽश्वः वाजिभिः वेजनवद्भिः शीघ्रगतिभिरश्वैः सह त्वां पातु । पूर्ववद् अश्वपुष्टिद्वारेणेति मन्तव्यम् । एवं वायुः अन्तरिक्षचरो देवः ब्रह्मणा परिवृढेन कर्मणा यज्ञलक्षणेन सह त्वा त्वां पातु । वाताद् यज्ञः प्रयुज्यताम्" [तै ब्रा ३.७.४.१] इति श्रुतेः वायोर्यज्ञाख्यब्रह्म- णा संबन्धः । यद्वा वायुः ब्रह्मणा परिवृढेन व्याप्तेन सूत्रात्मलक्षणेन सह पातु । अथ वा ब्रह्मशब्देन परिवृढम् अन्तरिक्षं स्वाश्रयम् उच्यते तेन सह पातु । एवम् इन्द्रो देवः इन्द्रियैः । इन्द्रियम् इन्द्रलिङ्गम् इन्द्रदृष्टम् इन्द्रसृष्टम्" इत्यादिना इन्द्रियशब्दो निपातितः । अतः इन्द्रियाण्यत्र इन्द्रसृष्टानि इन्द्रजुष्टानि वा परिगृह्यन्ते तैः सह पातु । 18' इतियोमणिं for इति यवमणिं. 2 Sayana's test, however, renuls math and not पातु वृषभो. 38 देवताकः for वृषभदेवता. “वाताद्