पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३७२ अथर्वसंहिताभाथे सं सृजतु । समुच्चयार्थौ चकारौ । यथा हिरण्यम्1 सुवर्ण तेजसा शुक्ल- भास्वररूपेण विशेषेण भासते । यत्तदोर्नित्यसंबन्धात् तथेत्यध्याहारः । तथा त्वमपि च जनान् अनु लक्षीकृत्य । लक्षणादिष्वर्थेषु अनुः कर्मप्रवचनीयः । तेजसा वर्चसा उज्ज्वलरूपेण विभासासि विशे- षेण भासेथाः ।तृतीयार्थे वा अनुः कर्ममप्रचनीयः । जनैः सह विशेषेण भासस्व । भासृ दीप्तौ । लेटि आडागमः । व्यत्य- येन परस्मैपदम् ॥ चतुर्थी ॥ यद् वेद राजा वरुणो वेद देवो बृहस्पतिः । इन्द्रो यद् वृत्रहा वेद तत् त आयुष्यं भुवत् तत् ते वर्चस्वं भुवत् ॥४॥ यत् । वेद । राजा । वरुणः । वेद । देवः । बृहस्पतिः । इन्द्रः । यत् । वृत्रऽहा । वेद । तत् । ते । आयुष्यम् । भुवत् । तत् । ते । व- र्चस्वम् । भुवत् ॥ ४॥ यत् हिरण्यं राजा राजमानो वरुणो देवः वेद अग्नेरुत्पन्नम् इति म- नुष्याणां मरणनिर्हरणोपाय इति जानाति । तथा बृहस्पतिः बृहता म- हतां देवानां पतिः पालकः एतत्संज्ञको देवः यत् हिरण्यम् उक्तस्वरूपं वेद । वृत्रहा वृत्रं हतवान् इन्द्रोपि यत् हिरण्यम् उक्तलक्षणं वेद । तत् वरुणादिभिर्देवैर्ज्ञातप्रभावं धारितं वा हिरण्यं ते तव हिरण्यधारक पु- रुष आयुष्यम् चिरकालजीवनाय हितम् आयुष्कारि भुवत् भवतु । तथा तद्धिरण्यं ते तव वर्चस्यम् वर्चसे हितं तेजस्कारि भुवत् भवतु । त- स्मै हितम्" इति उभयत्र यत् प्रत्ययः । भुवदिति । भवतेर्लेटि "भू- सुवोस्तिङि” इति गुणप्रतिषेधः । अडागमः । इतश्च लोपः" इति तिप इकारलोपः॥ एकोनविंशे काण्डे षष्ठं सूक्तम् ॥ तृतीयोनुवाकः समाप्तः ॥ &ASC. We with CDŘR V D. २८ भवत्तत्ते. We with ABDKK RŠV. IS Sayam's text also हिरण्यं तेजसा for our हिरण्यतेजसा, 66