पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०३. सू०२६.] ५७० एकोनविंशं काण्डम् । ३७१ प्रजावन्तः प्रकर्षेण जायमानाभिः पुत्रभृत्यादिभिस्तद्वन्तो मनवः । कार्ये कारणशब्दः । मनोः पुत्रा मनुष्याः पूर्वे हिरण्यधारिणां1 प्रथमभाविनः स2न्तः । पूर्वे सृष्ट्यादावुत्पन्ना मनवो वा । महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा । मद्भावा मानसा जाता येषां लोक इमाः प्रजाः॥ इति हि भगवद्वचनम् [भ गी०१०.६] । सुवर्णम् शोभनवर्णं यद्धिर- ण्यम् हितरमणीयं हेम सूर्येण सर्वस्य प्रसवित्रा स्वकारणेन आदित्येन सह ईषिरे प्राप्तवन्तः । लब्धवन्त इत्यर्थः । सूर्येण प्रेरिता वा मनवो हिरण्यम् ईषिरे । x ईष गत्यादिषु । भौवादिकः । आत्मनेपदी । "इजादेश्च गुरुमतोनृच्छः” इति विहित आम् प्रत्ययोत्र मन्त्रात्वाद् न प्रवर्तते "अमन्त्रे०" इति निषेधात् । इषु इच्छायाम् इत्यस्माद् वा व्य- त्ययेन आत्मनेपदम् । तत् मनुभिर्धारितं चन्द्रम् आह्लादकं हि- रण्यं कर्तृ त्वा त्वां हिरण्यधारकं वर्चसा तेजसा शरीरकान्त्या सं सृ- जतुं संयोजयतु । यः पुरुषो बिभर्ति धारयति हिरण्यं स पुमान आ- युष्मान् चिरकालजीवनवान् भवति । भूमार्थे मतुप् प्रत्ययः ४ ॥ तृतीया ॥ आयुषे त्वा वर्चसे त्वौजसे च बलाय च । यथा हिरण्यतेजसा विभासासि जनाँ अनु ॥ ३ ॥ आयुषे । वा । वर्चसे । वा । ओजसे । च । बलाय । च । यथा । हिरण्यऽतेजसा । विऽभासासि । जनान् । अनु ॥ ३ ॥ हे हिरण्यधारक पुरुष त्वा त्वाम् आयुषे चिरकालजीवनाय । तच्चन्द्रं सं सृजतु इत्यनुषङ्गः । तथा त्वा त्वां तद्धिरण्यं वर्चसे वर्चोलाभाय सं सृजतु । ओजसे शारीरबलाय । शरीरधारकोष्ठमो धातुर्वा ओजः । तदर्थं बलाय भृत्यादिसंपतिरूपाय बाह्याय बलाय तदर्थ च हिरण्यं त्वां १CR जन for जना. जने changeal to जना. I Softò for oscuri. २J°भाससि. We witli PP. OS अंतः.