पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३७०

अथर्वसंहिताभाष्ये अग्नेः परि अग्नेः सकाशात् । * परिशब्दः पञ्चभ्यर्थानुवादी ।प्र- जातम् प्रकर्षेण उत्पन्नं यत् हिरण्यम् सुवर्णं विद्यते । आग्नेयाद् रेतसः सुवर्णम् उत्पन्नम् इति तैत्तिरीयाः समामनन्ति । “अग्ने रेतश्चन्द्रं हिर- ण्यम् । अयः संभूतम् अमृतं प्रजासु" इति [तै. ब्रा॰ १.२.१.४] । यच्च हिरण्यं मत्येषु मरणधर्मसु मनुष्येषु अधि । अधिशब्दः स- प्तम्यर्थानुवादी 1अधिकृत्येति वा । अमृतम् अमरणसाधनं सत् दध्रे अवतिष्ठते ।* धृङ् अवस्थाने । तौदादिकः । अकर्मकः । आत्मने- पदी। मरण2धर्मणां मनुष्याणां मरणनिर्हरणसाधनवेन यत् हिरण्यं

तिष्ठति । यद्वा। धृ धारणे । सकर्मकः । छान्दसो लिट् ।म-

र्त्येषु अमरणसाधनत्वेन देवैर्दध्रे । चक्रे इति यावत् । एनत् । इ- दमो नपुंसकैकवचने एनदादेशो वक्तव्यः" इति इदम् एनदादेशः ।ए- नत् उक्तं हिरण्यं यः पुमान् वेद उक्तस्वरूपं हिरण्यं जानाति स इत् । इत अवधारणे । स एव पुमान् एनम् अन्वादिष्टं हिरण्यरूपं पदार्थम् अर्हति । धारयितुम् इति शेषः । यः पुमान् बिभर्ति धारयति स्वश- रीरे मणिकुण्डलाङ्गुलीयादिरूपं स पुरुषो हिरण्यधारी जरामृत्युः जरयैव मृत्युर्मृतिर्यस्य अकालमृतिरहितो भवति ॥ द्वितीया ॥ यद्धिरण्यं सूर्येण सुवर्णं प्रजावन्तो मनवः पूर्व ईषिरे । तत् त्वा चन्द्रं वर्चसा सं सृजत्यायुष्मान् भवति यो बिभर्ति ॥ २॥ यत् । हिरण्यम् । सूर्येण । सुऽवर्णम् । प्रजाऽव॑न्तः । मनवः । पूर्वे । ईषिरे । तत् । त्वा । चन्द्रम् । वर्चसा । सम् । सृजति । आयुष्मान् । भवति । यः । बिभर्ति ॥२॥ १K KV मनवः पूर्व इपिरे. BD R SC मनवः पूर्व इपिरे. C मनवः पूर्व ईपिरे. De मनवः पूर्व ईषिरे changeal to मनवः पूर्व इपिरे. We will cand arly with De. २ Kkv थि- भति. D बिमति changed to विभर्ति. We with BCD R Scs : PJ पूर्वे।. We with . PPJ इपिरे। 1 Parfal. We with P J. feratfört. We with PJ. 18 अकृत्येति वा. 25 मरणधर्माणां