पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

66 ३६० अथर्वसंहिताभाष्ये उक्तं हि नक्षत्रकल्पे । 'अश्रान्तस्य वा मनसा युनज्मीति गान्धाम आयुष्यः शान्तिः स्वस्तिगण ऐरावत्याम" इति [नक°१६.] ॥ सैषा ऋग् एवम् आम्नायते ॥ अश्रान्तस्य त्वा मनसा युनज्मि प्रथमस्य॑ च । उत्कूलमुद्वहो भवोदुह्य प्रति धावत्तात् ॥१॥ अश्रान्तस्य । त्वा । मनसा । युनज्मि । प्रथमस्य । च । उतऽकूलम् । उतऽवहः । भव । उतऽउह्य । प्रति । धावतात् ॥१॥ अत्र अश्वः संबोध्यः । हे गान्धर्वाश्व त्वा त्वाम् अश्रान्तस्य अमर- हितस्य परसेनाभिगमनेपि शरीरायासरहितस्य तुरंगमस्य मनसा शत्रुध- र्षणोत्सुकेन स्वाधि1रोहसादिप्रोत्साहकेन वा मनसा मानसेन प्रथमस्य स- ष्ट्यादौ उत्पन्नस्य अश्वजातेः पूर्वस्य अश्वस्य च मनसा युनज्मि योज- यामि । जितश्रमस्य उच्चैःश्रवसः अश्वश्रेष्ठस्य च मनउपलक्षितां2 सर्वेन्द्रि- यशक्तिं शरीरदार्ढ्यम् आशुत्वं परसेनाभिभवनसामर्थ्यं च अस्मिन् शा- न्तिफलत्वेन काम्यमाने तुरंगमे योजयामीत्यर्थः । एवंसामर्थोपेतस्त्वम् उँ- त्कूलमुद्वहो भवः । अतिदृप्तो3 भवेति तात्पर्यार्थः ॥ पदार्थस्तु । नदी परा- र्वाची तीरे प्रभूतेन जलप्रवाहेण उत्क्रम्य ऊर्ध्व प्रवहति एवं त्वमपि यु- द्धाय संनद्धं परसैन्यं स्वसामर्थेन अतिक्रम्य विक्षोभयेति अश्वः प्रोत्सा- ह्यते। वह प्रापणे । “उदि कूले रुजिवहोः” इति खच् प्र-. त्यय-. "खित्यनव्ययस्य" अरुर्द्विषदजन्तस्य मुम्" इति कूलशब्दस्य मुम आगमः । भवतेलेंटि अडागमः । “भूसुवोस्तिङि” इति 4गुणनि- षेधाभावश्छान्दसः । यद्वा छान्दसे लङि अमाङयोगेपि अडभावः। दुं- हीय एतादृशसामर्थ्पेतेन अश्वेन भवत्ता एषणीयानि शत्रुजयलक्षणानि १C R'S उत्कूल°. Ife with A BD K V Do Cs. २BCD K SV भवोदुह्य. De भवा- दुह changeal to भवोदुह्य. We with AR V Cs and PPJuhich have : उत्कूलम् । उत्ऽवहः । भव । उत्ऽउहाँ (Pउत्ऽउहा). 15 रोहवासादि 10 रोहसादि. 28 °उपलक्षितं. S' अतिद्रुप्तो. 45' गति i So Sayana's text too. ह्यते । त्ययः । for गुण.