पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ॰३. सू०२५.] ५६९ एकोनविंशं काण्डम् । स्तोतारो वयम ऊतये रक्षणार्थ च हवामहे आह्वयामः । अभिमतफल- लाभाथै लब्धस्य परिपालनार्थ स्वरक्षणार्थ च इन्द्रमेव आह्वयाम इत्यर्थः ॥ अष्टमी ॥ हिरण्यवर्णो अजरः सुवीरो जरामृत्युः प्र॒जया सं विशस्व । तदग्निराह तदु सोम आह बृहस्पतिः सविता तदिन्द्रः॥ ॥ हिरण्यऽवर्णः । अजरः । सुऽवीरः । जराऽमृत्युः । प्रडजया । सम् । वि- शस्व। तत् । अग्निः । आह । तत् । ऊं इति । सोमः । आह । बृहस्पतिः । स- विता । तत् । इन्द्रः ॥।॥ हिरण्यवर्णः हितरमणीयशरीरकान्तिः हिरण्यसमानवर्णो वा अजरः ज- रारहितः सुवीरः । वीराः कर्मणि कुशलाः पुत्राः । शोभनपुत्रादियुक्तो जरामृत्युः जरयैव मृत्युर्म॒तिर्यस्य अकालमरणरहितश्च सन् प्रजया प्रकर्षेण जायमानया पुत्रादिकया भृत्यादिरूपया वा सह सं विशस्व । संवेशश- ब्देन अत्र निर्देशो विवक्ष्यते । निर्विश । एवं हिरण्यवर्णादिविहितफलो- पपन्नः सन् चिरकालं सुखयेत्यर्थः । यद्वा सं विशस्व सम्यग्विश प्रविश । उक्तगुणोपेतः सन् स्वगृहम् अधितिष्ठेत्यर्थः । विशतेर्व्यत्ययेन आ- मनेपदम् । उक्तेर्थे विमतिपत्त्यभावं वासोभिमानिसर्वदेवतावचनेन समर्थयते उत्तरार्धेन । अग्निः अङ्गनादिगुणयुक्तो देवः तत् अस्मिन् सूक्ते प्रतिपादितम् अर्थजातम् आह ब्रवीति । उशब्दः अवधारणे । तदेव सोमो देव आह । तदेव अर्थजातम् इन्द्रबृहस्पतिसवितार आहुः । एत- दादयः सर्वेपि देवा इमम् उक्तम् अर्थम् आहुः । अस्मिन्नर्थे विप्रतिप- त्तिर्नास्तीत्यर्थः ॥ [इति] तृतीयेनुवाके चतुर्थ सूक्तम् ॥ "अश्रान्तस्य त्वा इति एकर्च सूक्तं “गान्धर्वीम् अश्वक्षये प्रयुञ्जी- त" [न क°१७.] इति विहितायां 1गान्धर्व्याख्यायां महाशान्तावावपेत् । 19' गंधर्वाख्यायां. 9 "