पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३६६ अथर्वसंहिताभाष्ये परि । इदम् । वासः । अधियाः । स्वस्तये । अभूः । वापीनाम् । अभि- शस्तिऽपाः । ऊं इति । शतम् । च । जीव । शरदः । पुरूचीः । वसूनि । चारुः । वि । भजासि । जीवन्् ॥६॥ एषापि तत्रैव द्वितीयकाण्डे तृतीयेनुवाके [२. १३.३.] व्याख्याता । अत्र चरमपादो विभिन्नः । हे शान्तिकर्तः इदम उक्तं वासो वस्त्रं स्व- स्तये क्षेमाय पर्यधियाः परिहितवान् असि । परिपूर्वाद् [धा- धातोर्लुङि “स्थाध्वोरिच्च” इति इत्त्वकित्त्वे । हूस्वाद् अङ्गात्" इति सिज्लोपः । तेन वासःपरिधानेन गृष्टीनाम्1 गवाम् अभिशस्तिपाः । त्वगादानभीतिरत्र अभिशस्तिशब्देन विवक्षिता । तस्या अभिशस्तेः पाता अभूः भव । उशब्दः पूरणः । शतं च जीवेति तृतीयः पादः पूर्ववत् । जीवन् शतसंवत्सरजीवनवान् चारुः वाससा दीप्यमानस्वं वसूनि धनानि वि भजासि पुत्रमित्रदायादादिभ्यो विभक्तं कुरु । अर्थिभ्यो वा प्रय- च्छ। भजतेलेंटि आडागमः ॥ “ सप्तमी॥ योगेयोगे तवस्तरं वाजेवाजे हवामहे । सोय इन्द्रमूतये ॥७॥ योगेऽयोगे। तवाऽतरम् । वाजेऽवाजे । हवामहे । सखायः । इन्द्रम् । ऊतये ॥ ७ ॥ अप्राप्यप्रापणं योगः। “नित्यवीप्सयोः" इति द्विवचनम् । यो. गेयोगे सर्वस्य अप्राप्यस्य फलस्य प्रापणविषये वाजेवाजे । वाजशब्दः अ- न्नवाची । उपलक्षणम् एतत् । अन्नादिलक्षणे फले लब्धे च । पृ- र्ववद् द्विवचनम् । लुप्तमत्वर्थीयस्तवस् शब्दः ४ । अतिशयेन तव- स्विनं समृद्धं तम् इन्द्रम् परमैश्वर्यसंपन्नं देवं सखायः समानख्या2नाः PJ at:t. We with . Siyana's test at has UTACHTATO for our califrarafitº. 28 FRITETCYT: do समानख्यानाः