पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ°३. सू०२४.] ५६. एकोनविंशं काण्डम् । ३६५ पञ्चमी॥ जरां सु गच्छ परि धत्स्व वासो भवा गृष्टीनामभिशस्तिपा उ । शतं च जीव शरदः पुरूंची रायश्च पोषमुपसंव्ययस्व ॥ ५ ॥ जराम् । सु । गच्छ । परि । धत्स्व । वासः । भव । गृष्टीनाम् । अभिश- स्तिऽपाः । ऊं इति । शतम् । च । जीव । शरदः । पुरूंचीः । रायः । च । पोषम् । उपऽसंव्य- यस्व ॥५॥ जरा- इयमपि ऋक् तत्रैव काण्डे [२. १३.३.] व्याख्याता । अत्र प्रथम- पादो भिन्नः । हे शान्तिप्रयोक्तः त्वं जराम वार्धकं सु गच्छ सम्यक् प्राप्नुहि । x“सुः पूजायाम्” इति कर्मप्रवचनीयः । जरा- पर्यन्तम् आयुष्मान भवेत्यर्थः । वासः एतत् परि धत्स्व आच्छादय । अनेन वासःपरिधानेन गृष्टीनाम गवाम् [अभिशस्तिपाः] अभिशस्तिः अभितो विशसनं हिंसा तन्निमित्ताद् भयात् पाता पालको भव । तत्र अभूरिति पाठः अत्र भवेति विशेषः । गवाम् अभिशस्तिपात्वं तत्रैव श- तपथब्राह्मणानुसारेण प्रपञ्चितं तत्1 ततोवगन्तव्यम् । किं च पुरूचीः ब- हुकालम् अञ्चन्तीः बहुविधान् पुत्रपौत्रादीन् वा व्याप्नुवतीः शतम् शनसं- ख्याकाः शरदः संवत्सरान् जीव । अपि च रायः धनस्य पोषम् पुष्टिं समृद्धिम् उपसंव्ययस्व परिधत्स्व । एतद्वासःपरिधानेन धनादिसमृद्धिर्भ- वतीति भावः ॥ षष्ठी ॥ परीदं वासो अधियाः स्वस्तयेभूर्वापीनामभिशस्तिपा उ। शतं च जीव शरदः पुरुचीर्वसूनि चारुर्वि भजासि जीवन् ॥ ६ ॥ ABCRCs grai. Wo with DRŠ VD<. ?PJ graft:1. We with ľ. A CD De aferet. We with BKİRŠ VC ABCD grafiº. Wc with KÅR Š V C: De. 19 तत्तत् for तत्.