पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये बृहस्पतिः प्रायच्छद् वास एतत् सोमाय राज्ञे परिधातवा उ॥४॥ परि । धत्त । धत्त । नः । वर्चसा । इमम् । जराऽमृत्युम् । कृणुत । दी- र्घम् । आयुः। बृहस्पतिः । प्र । अयच्छन् । वासः । एतत् । सोमाय । राज्ञे । परिऽधा- तवै । ऊं इति ॥ ४॥ एषा ऋक् द्वितीयकाण्डे तृतीयेनुवाके “आयुर्दाः" इति सूक्ते [२. १३. २] व्याख्याता । संग्रहार्थस्तु । वाससः सर्वदेवत्यावात् तदभिमानिदेवा- नामेव संबोध्यत्वम् । तथा च वाससः तैत्तिरीयके समाम्नायते । “अ- ग्ने1स्तूषाधानम्” इति प्रक्रम्य “तद् वा एतत् सर्वदेवत्यं यद् वासः" इति [सं०६.१.१.४] । हे देवाः परि धत्त । भु अन्तर्भावि- तण्यर्थः। इमं माणवकं वासः परिधापयत । नः अस्मदीयम् इमं वर्चसा तेजसा धत्त पोषयत । तेजस्विनं कुरुतेत्यर्थः । किं च इ- ममेव माणवकं जरामृत्युम् जरयैव मृत्युर्मृतिर्यस्य स तथोक्तः तथाविधं कु- रुत । अकालमृतिर्मा भूद् इत्यर्थः । एतदेवाह दीर्घम् इति । अस्य मा- णवकस्य दीर्घम् शतपरिमितम् आयुरस्तु ॥ तदेव वासः प्रशंसति । बृ- हस्पतिः बृहताम् इन्द्रादीनां पतिः एतन्नामा देवः । र “तदृहतोः करपत्योः इति सुट्तलोपौ । "पत्यावैश्वर्ये' इति पूर्वपदप्रकृतिस्वरत्वे प्राप्ते "उभे वनस्पत्यादिषु युगपत्" इति उभयपदप्रकृतिस्वरत्वम् ।ए- तन्नामा देवः एतत् प्रकृतं वासः सोमाय राज्ञे ब्राह्मणानां स्वामिने । "सोमोस्माकं2 ब्राह्मणानां राजा” इति श्रुतेः [सं०१.१.१०.२] । परिधातवै परिधातुम् । "तुमर्थे सेसेन्” इति तवै प्रत्ययः "तवै चान्तश्च युगपत्” इति उभयपदप्रकृतिस्वरत्वम् । प्रायच्छत अददात् । ४ दाण् दाने । इत्यस्मात् लङि “पाम्रा” इत्यादिना यच्छादेशः। उ इति पदपूरणः । अनेन वस्त्राणां सोमदेवताकावं3 सूचितम् । तथा च श्रुत्यन्तरम् । “सौम्यं वै वासः । स्वयैवैनद् दे- वतया प्रतिगृह्णाति" इति [तै ब्रा०२.२. ५.२] ॥ 18 अस्तेस्तुपायानम्. 2S inserts a वा after °स्माकं. 38 देवताक. ."