पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०३. सू०२४.] ५६. एकोनविंशं काण्डम् । शान्तिकर्ता यजमानः । जागर्तेलेंटि अडागमः । यथाश- ब्दो भिन्नक्रमः । यथा अयं साधकश्चिरकालं बलवान् शत्रुधर्षणसमर्थो जागृयात् अवहितो भवेत् । तथेत्यध्याहारः । एनं शान्तिकर्तारं जरसे जरायै जरापर्यन्तं नय प्रापय । आयुष्मन्तं कुर्विति इन्द्रः संबोध्यः । विश्वदेवसंबोधनपक्षे प्रत्येकविवक्षया एकवचनम् । ४ इदमोन्वादेशे एनादेशोनुदातः । "जराया जरस् अन्यतरस्याम्" इति अजादौ ज- राया जरस् आदेशः ॥ तृतीया ॥ परीमं सोममायुषे महे श्रोत्राय धत्तन । यथैनं जरसे नयां ज्योक् श्रोत्रेधि जागरत् ॥ ३ ॥ परि । इमम् । सोमम् । आयुषे । महे । श्रोत्राय । धत्तन । यथा । एनम् । जरसे । नयाम् । ज्योक् । श्रोत्रै । अधि। जागरत् ॥३॥ हे सोम वासोभिमानिदेव1 इमं शान्तिकर्तारं मां माम् आयुषे चि- रकालजीवनाय महे महते श्रोत्राय । श्रोत्रशब्दः सर्वेषां चक्षुरादीनाम् उपलक्षणम् । इन्द्रियसाध्यरूपाद्युपलब्धये आदानादिकर्मणे च परि धत्त- न परितः सर्वतो धत्त । पुष्टं कुरुत । पूर्ववद् बहुवचनम् । यद्वा श्रो- त्रशब्देन श्रूयते श्वाध्यते सर्वैः पुमान् अनेनेति2 यश उच्यते । श्रु श्रवणे । करणे औणादिकस्त्रन् प्रत्ययः । महते यशसे च परिध- त्त । यथैनम् इत्यादि पूर्ववत् । क्षत्रस्थाने श्रोत्रशब्दो विशेषः । यथा चि- रकालं श्रोत्रादीन्द्रियशक्तिमान् यशस्वी वा जागृयात् तथा एनं जरसे जरापर्यन्तं नयेति ॥ चतुर्थी ॥ परि धत्त धत्त नो वर्चसेमं जरामृत्युं कृणुत दीर्घमायुः । So we with ABCDËRS VCDO. S start. De startelunged to itali- 2. We with DKKR V C. So wo with ABCDRRSV Cs D.. PP I HATE . 18 देवते for "देव. 2S repicats here श्रोत्रशब्देन though it has the word already after यद्वा.