पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३६२ अथर्वसंहिताभाष्ये इति चतुर्थी । राज्यं रक्षितुं परि धत्तन परिधापय । रक्षकावेन धा1पय । अस्य राज्यस्य परकृतबाधापरिहारार्थम् इमं साधकं राजानं रक्षकत्वेन कुर्वित्यर्थः । दधातेर्लोटि मध्यमबहुवचनस्य तस्य तनादे- शः । “तिङां तिङो भवति" इति एकवचनस्य बहुवचनम् आदे- शः। यद्वा परि धत्तनेति लिङ्गाद् वस्त्र2रक्षणार्थ विहितायां त्वा- ष्ट्रयां शान्तौ विनियोगाद् अयम् अर्थः । येन निमित्तेन देवाः सविता- रम् आच्छादकम् अकुर्वन् तेन [हे] ब्रह्मणस्पते । वाससः सर्वदेवत्यत्वात् तदभिमानिदेवाः संबोध्यन्ते । वाससः सर्वदेवत्यत्वं तैतिरीयकाः समामन- न्ति । “तद् वा एतत् सर्वदेवत्यं यद् वासः” इति [तै सं०६.१.१. ४] । परि धत्तन हे वासोभिमानिनो देवाः यूयमपि एनं राष्ट्राय परि धत्तन । यथा देहस्य वास आच्छादकम् एवम् इमं साधकं राज्यस्य व- स्रवत् परिधापयत आच्छादकं कुरुत इति बहुवचनोपपत्तिः ॥ द्वितीया ॥ परीममिन्द्रमायुषे महे क्षत्राय॑ धत्तन । यथैनं जरसे नयां ज्योक् क्षत्रेधि जागरत् ॥ २ ॥ परि । इमम् । इन्द्रम् । आयुषे । महे । क्षत्राय । धत्तन । यथा । एनम् । जरसे । नयांम ।ज्योक् । क्षत्रे । अधि । जागरत् ॥२॥ हे इन्द्रं परमैश्वर्यसंपन्न त्वम् इमं साधकं मां माम् आयुषे आयुर्ला- भाय महे महते क्षत्राय क्षतात् त्रायत इति क्षत्रम् परकृतबाधापरिहा- रकं बलम् । तस्मै तल्लाभाय च परि धत्तन परिधापयत । अत्रापि पूर्व- वत् पूजायां बहुवचनं वस्त्राभिमानिसर्व3देवापेक्षया वा । उक्तम् अर्थ स्प- ष्टीकरोति । ज्योक् चिरकालं क्षत्रे बाधापरिहारके बले । निमित्ते सप्त- मी । अधिः सप्तम्यर्थानुवादी । अधिकं वा जागरत् जागृयात् असौ so we with A BCDËRVCD S originally road after and fuas the» correered it to arrafart", by ruoring the account. PŮJ PRI sirgjo i. we with A B C D k RSVC. Dr. PPJ नयाम् । IS व्यापय lin धापय.28 लक्षणार्थ in रक्षणार्थ. 38 सर्वदेवदेवापेक्षया.