पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०३. सू०२४.] ५६ एकोनविंशं काण्डम् । ३६१ काः काण्डाः सुमसिद्धाः । विषासह्यै स्वाहा" इति विषासहिशब्देन सप्तदशकाण्डोभि1धीयते । ब्रह्मणे स्वाहेत्यादि व्याख्यातम् ॥ [इति] तृतीयेनुवाके तृतीयं सूक्तम् ॥ "येन देवं सवितारम्" इति सूक्तम् "त्वाष्ट्रीं वस्त्रक्षये प्रयुञ्जीत" [न° क०१७] इति विहितायां महाशान्तावावपेत् । “अथा2वापिकाः शान्तय इत्यमृतायाम्" इति प्रक्रम्य सूत्रितं हि नक्षत्रकल्पे । “प्राणाय नमः “[११.६] इति संतत्याम् येन देवं सवितारम् [१९.२४] इति वा. 'ष्ट्रयाम्" इति [न.क०१८.॥ तत्र प्रथमा॥ येन देवं सवितारं परि देवा अधारयन । तेनेमं ब्रह्मणस्पते परि राष्ट्राय धत्तन ॥ १ ॥ येन । देवम् । सवितारम् । परि । देवाः । अधारयन् । तेने । इमम् । ब्रह्मणः । पते । परि । राष्ट्राय । धत्तन ॥१॥ देवाः द्योतमाना इन्द्रादयः देवम् द्योतमानं सवितारम् सर्वस्य प्रेर- कम् आदित्यं येन हेतुना रक्षोहननरूपेण पर्यधारयन् परितः सर्वत आ- च्छादयन् । दर्शपूर्णमासादिषु रक्षोनिबन्धनयज्ञभ्रंशपरिहाराय आदित्यमेव परिधित्वेन कल्पितवन्त इत्यर्थः । अत एव तैतिरीयके समाम्नायते । "न पुरस्तात् परिदधाति । आदित्यो ह्येवोद्यन् पुरस्ताद् रक्षांस्यपहन्ति' इति [तै सं०२.६.६.३] । तेन कारणेन शत्रुनिर्हरणात्मना हे ब्रह्म- णस्पते ब्रह्मणो वेदरूपस्य मन्त्रस्य पते पालक एतत्संज्ञक देव इमम् म- हाशान्तिप्रयोक्तारं यजमानं राष्ट्राय राज्याय । x“क्रियार्थोपपदस्य" ADK V C: Pr. De steta changed to YTH. We witli BCRS

  1. . P अधारयन् ।।

IS The commentator, it will be obscrveil, omits to notice #ff #T: Faret. llis text has the words like our authorities after feu FET. It reads them fit- लिकेभ्यः स्वाहा, more correctly than our authorities which all hure मंगलिकेभ्यः स्वा- हा. 28 अथ वापि.