पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३५४ अथर्वसंहिताभाष्ये ज्येष्ठः प्रशस्यतमो येषां तानि । शेर्लुक् ।यद्वा ज्येष्ठेन ब्रह्मणा । * एकत्र विभक्तेर्लृक् । अपरत्र तृतीयाया इनादेशा- भावः। संभृता संभृतानि । सर्वस्माद् अयमेव वीर्यवान् इत्यर्थः । अग्रे सृष्ट्यादौ 1ज्येष्ठं ब्रह्म दिवम् धुलोकम् आ ततान विस्ता2रितवान् । तथा ब्रह्मा भूतानां सृज्यमानानां प्रथमः पूर्वभावी जज्ञे उत्पन्नः । तेन कारणेन ब्रह्मणा स्पर्धिनम् स्पर्धां कर्तुं कः अन्यो देवो मनुष्यो वा अ-. र्हति समर्थो भवति । अधिकतरवीर्यवत्त्वात् सर्वोत्कृष्टस्थाननिवासित्वात् सर्वेषाम् आदिभूतत्वाच्च ब्रह्मणः समानो नास्तीत्यर्थः ॥ [इति ] तृतीयेनुवाके द्वितीयं सूक्तम् ॥ "आथर्वणानां चतुर्ऋचेभ्यः” इति सूक्तस्य समाससंज्ञकस्य आङ्गि- रस्यां महाशान्तौ विनियोगः पूर्वसूक्तेन सह उक्तः । सूत्रं तु तत्रैवो- दाहृतम् ॥ तत् सूक्तम् एवम् आम्नायते ॥ आथर्वणानां चतुर्ऋचेभ्यः स्वाहा ॥१॥ आथर्वणानाम् । चतुःऽऋचेभ्यः । स्वाहा ॥१॥ पञ्चर्चेभ्यः स्वाहा ॥२॥ पञ्चडऋचेभ्यः । स्वाहा ॥ २ ॥ पळचेभ्यः स्वाहा ॥३॥ पट्ऽऋचेभ्यः । स्वाहा ॥३॥ सप्तर्चेभ्यः स्वाहा ॥४॥ सप्तऽऋचेभ्यः । स्वाहा ॥ ४॥ अष्टर्चेभ्यः स्वाहा ॥ ५॥ अष्टऽचेभ्यः । स्वाहा ॥५॥ नवर्चेभ्यः स्वाहा ॥ ६ ॥ नवऽऋचेभ्यः । स्वाहा ॥ ६ ॥ दशर्चेभ्यः स्वाहा ॥ ७॥ दशऽऋचेभ्यः । स्वाहा ॥ ७॥ एकादशर्चेभ्यः स्वाहा ॥ ॥ एकादशऽऋचेभ्यः । स्वाहा ॥४॥ द्वादशर्चेभ्यः स्वाहा ॥९॥ द्वादशऽऋचेभ्यः । स्वाहा ॥९॥ PA ŚCDKÄRŠ De Cs 75*. We with J und Såyana. PP पडऽऋ. We with J. 1 SS, a neuter subject with a masculine prelicate.