पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ°३. सू०२१.] ५६५ एकोनविंशं काण्डम्। ३५५ त्रुसेना प्रकाशैव आयातु । देवानुगृहीतकवचधारणेन दृप्तामपि तां पर- सेनां हन्तुं शक्नोमीत्यर्थः ॥ एकादशं सूक्तम् ॥ [इति] एकोनविंशे काण्डे द्वितीयोनुवाकः ॥ तृतीयेनुवाके षट् सूक्तानि । तत्र 'गायत्र्युणिक्” इति प्रथमसूक्त- स्य “गायत्रीं1 छन्दोब्रह्मवर्चसकामस्य प्रयुञ्जीत" इति [न क° १७] वि- हितायां 2गायत्र्याख्यायां महाशान्तौ विनियोगः । उक्तं हि नक्षत्रकल्पे । "छन्दोगणः [२२] गायत्र्याम् समासः3 [२२, २३] आङ्गिरस्याम्" इति [नक.१..] ॥ तत्सूक्तपाठस्तु ॥ गायत्र्युपष्णिगनुष्टुब् बृहती पङ्क्तिस्त्रिष्टुब् जगत्यै ॥१॥ गायत्री। उष्णिक् । अनुऽस्तुप् । बृहत्ती। पङ्क्तिः । त्रिऽस्तुप् । जगत्यै ॥१॥ 'सप्तसु 4च्छन्दःस्वचः कल्पयित्वा गायत्र्यादि गायत्र्यै स्वाहा इत्येवं यथाछन्दः" इति5 तत्रैव नक्षत्रकल्पे मन्त्राणाम् ऊहनप्रकार6स्य दर्शित- त्वाद् गायत्र्यै स्वाहा उष्णिहे वाहा अनुष्टुभे स्वाहा बृहत्यै स्वाहा पङ्क्तयै स्वाहा त्रिष्टुभे स्वाहा जगत्यै स्वाहा इत्येवम् अस्मिन् सूक्ते सप्त मन्त्रा भवन्ति । सर्वे मन्त्राः स्पष्टाः ॥ [इति ] तृतीयेनुवाके प्रथमं सूक्तम् ॥ १ C गायव्यु३०. R. Cs गायञ्यु३०. KK BDV गायत्र्यु', uone laving any kaniya. २ जगती।. We with PJ. 18 गायत्री. 28 गायत्र्याख्यां महा". 38 समासमाथि for समासः आणि.43 छंदस्तितः for च्छन्दःस्वृचः. 58 इव for इति. 6 S Sayana's text very correctly vends गायञ्युष्णिगनुष्टुब्बृहतीपंक्तित्रिष्टुमगत्यै so as to forn the whole line only one word. This reading is sloubtless proverl to be the correct original reading by the JSS. having to instencl of straft. The MSS. make the worls separate and then necessarily accent them but make the line quite unintelligible therchy: None of our MSS. have °पतित्रिष्टु'. 66