पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३५४ अथर्वसंहिताभाष्ये द्युराजयः दिवि धुलोके राजमाना देहिनः शरीरिणः । कवचधारणं1 देहस्यैवेति देहिनो देवा इत्युक्तम् । ते प्रसिद्धा देवाः तनूषु स्वशरीरेषु यद् वर्म अनह्यन्त धृतवन्तः । xणह बन्धने । देवादिकः । कर्त्रभिप्राये क्रियाफले आत्मनेपदम् । असुरयुद्धे स्वदेहरक्षणार्थ प्रतिमुक्तवन्तः । इन्द्रश्च यद् वर्म 2कवचं चक्रे शत्रुविजयार्थम् । करोतेः पूर्ववद् आत्मनेपदम् । तत् कवचं देवैरिन्द्रेण च स्वशरीरे धारितम् इदं कवचम् अस्मान् युद्धोद्यतान् विश्वतः सर्वतः परकृतपिरहारेभ्यः पातु रक्षतु। चतुर्थी॥ वर्म मे द्यावापृथिवी वर्माहर्वर्म सूर्यः । वर्म मे विश्वे देवाः क्रन मा मा मापत् प्रतीचिका ॥ ४ ॥ वर्म । मे। द्यावापृथिवी इति । वर्म । अहः । वर्म । सूर्यः । वर्म। मे। विश्वे । देवाः । ऊन् । मा। मा।प्र। आपत् । प्रतीचिका ॥४॥ द्यावापृथिवी द्यावापृथिव्यौ मे मम वर्मं कवचं कुरुताम् । अग्निश्च3 वर्म करोतु । सूर्यश्च विश्वे सर्वे देवाः इन्द्रादयश्च मे मम युयुत्सोर्मदी- यस्य वा राज्ञः वर्म कवचं क्रन् कुर्वन्तु । करोतेश्छान्दसे लुङि 'मन्त्रे घस." इति च्लेर्लृक् । झेः सार्वधातुकस्य ङित्त्वाद् गुणप्रतिषेधे यण् आदेशः । “बहुलं छन्दस्यमाड्योगेपि" इति अडभावः । किं च प्रतीचिका प्रत्यगञ्चना प्रतीची। अज्ञातार्थे कप्रत्ययः । “के- ऽणः" इति हूस्वत्वम् । शत्रुसेना अज्ञातप्रतिकूलाञ्चना सती [मा] मां कवचधारिणं युद्धोद्यतं मो मैव प्रापत प्राप्नोतु । आ- प्नोतेर्माङि लुङि लृदित्वाद् अङ् ।कवचधारिणो ममाग्रतः श- १ A B C D K KR देवाः क्रन्, PPI क्रन् ।. }}e vil sc: De. २ BDS प्रतीचि- का. D प्रतीचिका changeal to प्रतीचिका. We with C KKR V Ch. ३J प्रतीचिका । We with Pe. 15 कवचधारिणं देहस्ये. 28 शर्म for कवचं. 3 S Sayana's text too Taifas and not वर्माहवर्म. 66