पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०२. सू० २०.] ५६४ एकोनविंशं काण्डम् । ३५३ यानि । चकार । भुवनस्य । यः । पतिः । प्रजाऽपतिः । मातरिश्वा । प्रडजाभ्यः । प्रडदिशः । यानि । वसते । दिशः । च । तानि । मे। वर्माणि । बहु- लानि । सन्तु ॥२॥ भुवनस्य भूतजातस्य पतिः पालको यः प्रजापतिरस्ति स यानि व- र्माणि कवचानि चकार । किमर्थम् । प्रजाभ्यः प्रकर्षेण जायमानाभ्यो मनुष्यपश्वादिभ्यः । तादर्थे चतुर्थी । तद्रक्षणार्थं मातरिश्वा मातरि अन्तरिक्षे श्वसितीति मातरिश्वा वायुः सूत्रात्मा । प्रजापतेर्विशे- पणम् एतत् । तथा प्रदिशः प्रकृष्टाः प्राच्यादिमहादिशः दिशः अवान्त- रदिशश्च यानि वर्माणि वसते आच्छादयन्ति 1स्वरक्षणार्थम् । Xवस आच्छादने । आदादिकोऽनुदात्तेत् । तानि प्रजापतिना प्रजारक्ष- णार्थं निर्मितानि दिग्भिश्च स्वरक्षणार्थं वसितानि वर्माणि कवचानि मे मम युयुत्सोः बहुलानि प्रभूतानि [सन्तु] भवन्तु ॥ यदायदापेक्षते तदा लाभाय बहुलानीत्युक्तम् । अथ वा स्वस्य परिवाराणां च अपेक्षया बहु- लानीति । यस्य यद् अपेक्षितं तस्य तद् भववित्यर्थः ॥ तृतीया ॥ यत् ते तनूष्वनह्यन्त देवा द्युराजयो देहिनः । इन्द्रो यच्चके वर्म तदस्मान् पातु विश्वतः ॥ ३॥

यत् । ते । तनूषु । अनन्त । देवाः । द्यु। राजयः । देहिनः ।

इन्द्रः। यत् । चक्रे । वर्मं । तत् । अस्मान् । पातु । विश्वतः ॥ ३ ॥ BJ Tel. We with P. ABCDËSR V Cs De ortaquerdanagarfter- orica:. We with Sayaņa, the accents being ours. JPài. We with P. PP I देवा । अधिऽराज । यः । धेहि । नः ।. We with Sayatia, the accents being ours, 4 PP Jared. We with Sayana and our Suñhitů vshich is based on A ŚCDR RS (Cs सर्वतः). 15 स्वलक्षणार्थम्.