पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३५२ अथर्वसंहिताभाष्ये 'अप न्यधुः पौरुषेयम्" इति सूक्तेन युद्धोद्यतं राजानं कवचेन पु. रोहितः संनह्येत ॥ “ तत्र प्रथमा॥ " अप न्यधुः पौरुषेयं वधं यमिन्द्राग्नी धाता सविता बृहस्पतिः । सोमो राजा वरुणो अश्विना यमः पूषास्मान् परि पातु मृत्योः ॥१॥ अपं । न्यधुः । पौरुषेयम् । वधम् । यम । इन्द्राग्नी इति । धाता। सवि- ता। बृहस्पतिः। सोमः । राजा । वरुणः । अश्विना । यमः। पूषा । अस्मान् । परि । पातु । मृत्योः ॥ १॥ पौरुषेयम् पुरुषैः शातयितृभिररिभिः कृतम् । "पुरुषाद् वध- विकारसमूहतेनकृतेष्विति वक्तव्यम्" इति ढञ् । “नित्यादिर्नित्यम्" इ- ति आधुदात्तत्वम् । तं यं वधम् वधसाधनम् । "हनश्च वधः” इति हन्तेरप् प्रत्ययः । वधश्चादेश आद्युदात्तः । अप न्य- धुः अपाञ्चम् अपगूढं न्यधुः निहितवन्तः । वलगलक्षणं शस्त्रास्त्रादिरूपं वा हननसाधनं मायया परेषाम् अप्रकाशं हननसाधनम् अस्मान् हिं- सितुम् अस्मदभिमुखं प्रेरितवन्त इत्यर्थः । यत्तदोर्नित्यसंबन्धाद् उ- त्तरवाक्ये तच्छब्दाध्याहारः । तस्माद् अप्रकाशात् शत्रुभिः प्रहि- ताद् मृत्योः मृत्युसाधनाद् मृत्युरूपाद् वा वधाद् अस्मान् कवचधा- रिणः अस्मदीयान् राज्ञो वा इन्द्राग्न्यादयो देवताः परि पातु । प्रत्येकवि- वक्षया एकवचनम् । परितः सर्वतः पान्तु रक्षन्तु । भीत्रार्था- नाम्” इति मृत्योरित्यत्र अपादानात्वात् पञ्चमी ॥ द्वितीया ॥ यानि चकार भुवनस्य यस्पतिः प्रजापतिर्मातरिश्वा प्रजाभ्यः । प्रदिशो यानि वसते दिशश्च तानि मे वर्माणि बहुलानि सन्तु ॥२॥ ? Su ABCDËRŠ VC- Du. Su PP Jamul not faszry: I.