पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३५१ [अ०२, सू०१९.] ५६३ एकोनविंशं काण्डम् । दशमी ॥ देवा अमृतेनोदक्रामंस्तां पुरं प्रणयामि वः । तामा विशत तां प्रविशत सा वः शर्म च वर्म च यच्छतु॥१०॥ देवाः । अमृतेन । उत्। अक्रामन् । ताम्। पुरम् ।। नयामि । वः । ताम् । आ । विशत । ताम् । प्र। विशत । सा। वः । शर्म । च । वर्म । च । यच्छतु ॥ १०॥ देवाः द्योतनशीला अमरा अमृतेन अमरणसाधनेन सुधारसेन सह उदक्रामन्1 । यां पुरं रक्षितुम् इति शेषः । तां पुरम् इत्यादि गतम् । अत्रत्याः प्रजा निर्भीका2 दीर्घायुषश्च भवन्तु इत्यर्थं विवक्षितुं रक्षणार्थम् अमृतेन सह देवा उत्क्रान्तवन्त इत्युक्तम् ॥ एकादशी ॥ प्रजापतिः प्रजाभिरुदक्रामत् तां पुरं प्रणयामि वः । तामा विशत तां प्रविशत सा वः शर्म च वर्म च यच्छतु ॥ ११ ॥ प्रजाऽपतिः। प्रजाभिः। उत्। अक्रामत्। ताम्। पुरम् ।म।नयामि। वः। ताम् । आ । विशत । ताम् । प्र । विशत । सा। वः । शर्म । च । वर्म। च । यच्छतु ॥ ११॥ प्रजापतिः प्रजानां पतिर्देवः प्रजाभिः प्रकर्षेण बहु3त्वेन जायमानाभिर्म- नुष्यादिकाभिः उदक्रामत् । तां पुरम् इत्यादि पूर्ववद् व्याख्येयम् । उ- तरोतरं प्रभविष्णुप्र4जांभूयिष्ठत्वम् अत्र नगरे भूयाद् इत्याशासितुम् इदं वचनम् ॥ [इति ] द्वितीयेनुवाके दशमं सूक्तम् ॥ AⓇCKD Š V De sraguit. We with K Ř Cs. २ " अक्रामत् ।. P अक्रमत् ।। J अप्रामन् । changed to अक्रामत् ।। 18 उदक्रामत्, though in its text it rends उदफ्रामन् तां &c. 28 निराभेका. 38 बहुभिः सत्वेन. १ 48 प्रजाः,