पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३५० अथर्वसंहिताभाष्ये इति अम्बुराशिः उदक्रामत् । तां पुरम् इत्यादि गतम् । रक्षोहनना1र्थ नदीसहितसमुद्रोत्क्रान्त्या दापत्यधर्मविशिष्टाः प्रजा अत्र संपद्यन्ताम् इति विवक्ष्यते ॥ अष्टमी॥ ब्रह्म ब्रह्मचारिभिरुदक्रामत् तां पुरं प्रणयामि वः । तामा विशत तां प्रविशत सा वः शर्म च वर्म च यच्छतु ॥७॥ ब्रह्म । ब्रह्मचारिभिः । उत् । अक्रामत् । ताम्। पुरम्।प्र।नया- मि। वः। ताम् । आ । विशत । ताम् ।प्र। विशत । सा। वः । शर्म । च । वर्म । च । यच्छतु ॥ ६॥ ब्रह्म साङ्गो वेदः ब्रह्मचारिभिः ब्रह्मणि वेदे वेदविहिते यज्ञादिकर्मणि चरितुं वर्तितुं शीलं येषां ते तैः सह उदक्रामत् । अनेन श्रौतस्मातकर्म- निष्णाताः साङ्गवेदाध्यायिनः अनूचाना ब्राह्मणा बहवः समृध्यन्ताम् इति विव2क्ष्यते । तां पुरम् इत्यादि पूर्ववत् ॥ नवमी ॥ 1 इन्द्रो वीर्य३णोदक्रामत् तां पुरं प्रणयामि वः । तामा विशत तां प्रविशत सा वः शर्म च वर्म च यच्छन्तु ॥ ९ ॥ इन्द्रः। वीर्येण । उत् । अक्रामत् । ताम् । पुरम् ।प्र। नयामि। ताम् । आ । विशत । ताम् । प्र । विशत । सा। वः । शर्म। च । वर्म । च । यच्छतु ॥ ९॥ इन्द्रः परमैश्वर्यसंपन्नः समस्तदेवाधिपतिः वीर्येण वीरकर्मणा स्वीयेन बाहुशौर्येण सेनालक्षणेन बलेन वा सह उद् अक्रामत् । इन्द्रो यथा स्ववीर्येण सर्वान् शत्रून जितवान् एवम् अस्मिन् पुरे वर्तमानस्त्वमपि स. र्वातिशायी सर्व3वैरिक्षयी भूया इत्यर्थः ॥ 18 रक्षाहणार्थ, 25 विवक्ष्यंते. 38 सर्वविवक्षयी.