पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३४९ [अ०२. सू०१९.] १६३ एकोनविंशं काण्डम्। तामा विशत तां प्रविशत सा वः शर्म च वर्म च यच्छतु ॥ ५ ॥ सोमः । ओषधीभिः । उत् । अक्रामत् । ताम् । पुरम।प्र। नयामि। वः । ताम् । आ । विशत। ताम् । प्र। विशत । सा। वः। शर्म। च । वर्म। च । यच्छतु ॥ ५॥ सोमः ओषधीनां रसप्रदानेन पोषको देवः ओषधीभिः ओषः पाको धीयत आस्विति ओषध्यः फलपाकान्ताः । उपलक्षणम् एतत तरुगुल्मा- दीनाम् । तैः स्वपोष्यैः सहितः । उदक्रामत् इत्यादि गतम् । युष्माभिः प्रविश्यमाने पुरे ओषध्यादिसमृद्धिर्भववित्यर्थः ॥ षष्ठी॥ यज्ञो दक्षिणाभिरुदक्रामत तां पुरं प्रणयामि वः । तामा विशत तां प्रविशत सा वः शर्म च वर्म च यच्छतु ॥ ६ ॥ यज्ञः। दक्षिणाभिः । उत् । अक्रामत् । ताम्। पुरम् ।प्र। नयामि। वः। ताम् । आ । विशत । ताम् । प्र। विशत । सा। वः । शर्म । च । व- र्म। च । यच्छतु ॥ ६ ॥ यज्ञः ज्योतिष्टोमादिः प्रकृतिविकृत्यात्मक; सर्वः क्रतुः दक्षिणाभिः वि- हिताभिर्यथोक्ताभिर्दक्षिणाभिः सह उत्क्रान्तवान् । यां पुरं रक्षितुम् इति । अत्र बहुदक्षिणाका यज्ञाः समृद्धा भवन्त्वित्यर्थः ॥ सप्तमी॥ समुद्रो नदीभिरुदक्रामत् तां पुरं प्र णयामि वः । तामा विशत तां प्रविशत सा वः शर्म च वर्म च यच्छतु ॥ ७॥ समुद्रः । नदीभिः । उत् । अक्रामत् । ताम् । पुरम् । प्र। नयामि।। ताम् । आ। विशत । ताम् । प्र। विशत । सा। वः। शर्म । च । वर्म। च । यच्छतु ॥ ७॥ नदीभिः नदनशीलाभिरापगाभिः समुद्रः समुद्रवन्ति अस्माद् आप