पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३४० अथर्वसंहिताभाष्ये वायुः वातो मातरिश्वा अन्तरिक्षेण अनरा क्षान्तेन स्वीयेन मध्यम- लोकेन सह उदक्रामत् । यो पुरं रक्षितुम् इति शेषः । तां पुरम इ- त्यादि पूर्ववद् व्याख्येयम् ॥ तृतीया ॥ सूर्यो दिवोदक्रामत तां पुरं प्रणयामि वः । तामा विशत तां प्रविशत सा वः शर्म च वर्म च यच्छतु ॥ ३ ॥ सूर्यः । दिवा । उत् । अक्रामत् । ताम् । पुरम् । प्र । नयामि । वः । ताम् । आ। विशत । ताम् । प्र । विशत । सा। वः । शर्म । च । व- र्म । च । यच्छतु ॥ ३॥ सूर्यः सर्वस्य प्रेरक आदित्यः दिवा स्वनिवासस्थानेन धुलोकेन सह । उदक्रामत इत्यादि पूर्ववत् ॥ चतुर्थी ॥ चन्द्रमा नक्षत्रैरुदक्रामत तां पुरं प्रणयामि वः । तामा विशत तां प्रविशत सा वः शर्म च वर्म च यच्छतु ॥४॥ चन्द्रमाः । नक्षत्रैः । उत् । अक्रामत् । ताम् । पुरम् । प्र। नयामि। वः । ताम् । आ । विशत । ताम् । प्र। विशत । सा । वः । शर्म । च । व- र्म। च । यच्छतु ॥४॥ चन्द्रमाः चन्द्रम् आह्लादं माति निर्मिमीत इति चन्द्रमाः सर्वस्य लो- कस्य आह्लादको हिमांशुः नक्षत्रैः । न क्षीयन्त इति नक्षत्राणि तार- काः। "नभ्राण्नपात्" इत्यादिना नक्षत्रशब्दो निपातितः। स्वो- पभोग्यैरश्विन्यादिनक्षत्रैः सह नक्षत्राधिपतिश्चन्द्रमाः स्वपरिवारभूतेस्तैरेव स- हितो यां पुरं रक्षितुम् उत्क्रान्तवान् तां. पुरम । युष्मान् प्रापयामीत्यादि

गतम् ॥ पञ्चमी॥ सोम ओषधीभिरुदक्रामत् तां पुरं प्रणयामि वः ।