पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०२. सू०१९.] ५६३ एकोनविंशं काण्डम् । ३४७ मित्रः । मित्रशब्देन अग्निरुच्यते । पृथिव्याः1 साहचर्यात् पृथिवीस्थान- त्वाद् अग्नेः “सूर्यो दिवोदक्रामत्” इति सूर्यस्य पृथग्वक्ष्यमाणत्वाच्च । मि- त्रः अग्निः मीयमान2त्वाद् आहवनीयादिस्वरूपेण प्रणीयमानत्वात् । दु- मिञ् प्रक्षेपणे । अस्माद् औणादिकः क्वन् प्रत्ययः । कित्त्वाद् गुणा- भावः । पृथिव्या स्वनिवासस्थानभूतेन पृथिवीलोकेन सह उदक्रा- मत् उत्क्रान्तवान् । यां पुरं रक्षितुम् इति शेषः । तां पृथिवीलोकाभि- मानिना अग्निना रक्षितां3 पुरम् शय्यागृहलक्षणां प्रसिद्धां नगरीं वा वः युष्मान् राज्ञः । पूजायां बहुवचनम् पुत्रमित्रामात्यावरोधस्त्रीविवक्षया वा बहुवचनम् । पुत्रयोषित्सहितान् युष्मान् प्र णयामि प्रकर्षेण नयामि मा- पयामि । ततः तां पुरम् आ विशत अभिमुखं प्रविशत प्रवेशोन्मुखा भवत । अनन्तरं तां पुरं प्र विशत अन्तःप्रविष्टा भवत । शय्यास्थाने स्वीयसौधे वा निविष्टा भवतेति वा । सा पू: शय्यागृहलक्षणा पुरी वा वः युष्मभ्यं प्रविष्टेभ्यः शर्म सुखं वर्म कवचं पराभेद्यत्वलक्षणम् आव- रणं वा यच्छतु प्रयच्छतु । दाणो यच्छादेशः । परस्पर- समुच्चयार्थौ चकारौ । एवम् उत्तरे दश पर्यायमन्त्रा व्याख्येयाः । वि- शेषस्तु तत्रतत्र वक्ष्यते4 । यथा अग्निः स्वाधिष्ठिते पृथिवीलोके सर्वोतरो वर्तते एवं त्वमपि इदं नगरम् अधिष्ठाय सर्वातिशायी वर्तस्वेति विवक्षि- तम् । [यथा] पृथिव्या सह अग्निरुक्रान्तवान् इत्युक्तः एवम् उत्तरयोर्वा- युसूर्यमन्त्रयोस्तात्पर्यार्थ5 उन्नेयः ॥ अथ द्वितीया ॥ वायुरन्तरिक्षेणोदक्रामत् तां पुरं प्रणयामि वः । तामा विशत तां प्रविशत सा वः शर्म च वर्म च यच्छतु ॥ २ ॥ वायुः। अन्तरिक्षेण । उत् । अक्रामत् । ताम् । पुरम् । प्र । नयामि। वः । ताम् । आ । विशत । ताम् । प्र। विशत । सा। वः । शर्म । च । व- र्म। च । यच्छतु ॥२॥ 13 पृथिव्या for पृथिव्याः. 2' मीयत्वात् for मीयमानत्वात्. 3S lus रक्षितां तां. 18 वक्ष्यते. 55 स्तात्पर्या उन्नेयः.