पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये नवमदशमपर्यायौ एवम् आम्नायते ॥ प्रजापति ते प्रजननवन्तमृच्छन्तु । ये माघायवो ध्रुवाया दिशोडभिदासात् ॥ ९॥ प्रजाऽपतिम् । ते । प्रजननऽवन्तम् । ऋच्छन्तु । ये। मा । अघऽयवः । ध्रुवायोः । दिशः । अभिऽदासात् ॥ ९ ॥ बृहस्पतिं ते विश्वदेववन्तमृच्छन्तु । ये माघायव ऊर्ध्वाया दिशोभिदासात् ॥ १० ॥ बृहस्पतिम् । ते । विश्वदैवऽवन्तम् । ऋच्छन्तु । ये । मा। अयऽयवः । ऊर्ध्वायाः । दिशः । अभिऽदासात् ॥१०॥ प्रजननं नाम सर्वजगदुत्पादनसाधनं वस्तु । यद्वा प्रजननम् इति पुं- व्यञ्जनम् उच्यते । स्त्रीपुंससृष्टेस्तन्निमित्तकत्वात् ॥ विश्वदेववन्तम् विश्वैर्देवै- स्तग्वन्तम् । "मादुपधायाः" ” इति मतुपो वत्वम् । बृह- स्पतिम् बृहतां महतां देवानां पतिं देवम् ॥ शिष्टम् अवि1शिष्टम् ॥ [इति ] द्वितीयेनुवाके नवमं सूक्तम् ॥ "मित्रः पृथिव्योदक्रामत्" इति सूक्तेन पुरोहितो रात्रौ राजानं श- य्यागृहं प्रवेशयेत् । परिशिष्टं तु पूर्वमेव उदाहृतम् । राज्ञो नूतननगर- प्रवेशनकर्मणि च विनियोगः ॥

तत्र प्रथमा। मित्रः पृथिव्योदक्रामत तां पुरं प्र णयामि वः । तामा विशत तां प्रविशत सा वः शर्म च वर्म च यच्छतु ॥१॥

मित्रः । पृथिव्या । उत् । अक्रामत् । ताम् । पुरम् । प्र । नयामि। वः ।

ताम् । आ। विशत । ताम् । प्र। विशत । सा । वः । शर्म । च । वर्म। च । यच्छतु ॥१॥ Pal. We with PJ. 18 अवशिष्टम्.