पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ°२. सू०१०.] १६२ एकोनविंशं काण्डम्। ३४५ ये माघायवः प्रतीच्या दिशोभिदासात् ॥ ५ ॥ सूर्यम् । ते । द्यावापृथिवीऽवन्तम् । ऋच्छन्तु । ये । मा। अघऽयवः । प्रतीच्याः । दिशः । अभिऽदासात् ॥ ५ ॥ अपस्त ओषधीमतीर्ऋच्छन्तु। ये माघायव एतस्या दिशोभिदासात् ॥ ६ ॥ अपः । ते । ओषधीऽमतीः । ऋच्छन्तु । ये । मा। अघऽयवः । एतस्याः । दिशः । अभिडदासात् ॥ ६ ॥ द्यावापृथिवीवन्तम् द्यावापृथिव्यौ यस्य प्रकाश्यत्वेन स्तः । इति मतुप् । “छन्दसीरः" इति तस्य वत्वम् ॥ ओषधीमतीरपः उ. दकानि । कर्म । एतस्याः प्रतीच्या दिशः ॥ शिष्टं निगदसिद्धम् ॥ सप्तमाष्टमपर्यायमन्त्रपाठस्तु ॥ विश्वकर्माणं ते सप्तऋषिवन्तमृच्छन्तु । ये माघायव उदीच्या दिशोभिदासात् ॥ ७ ॥ विश्वकर्माणम् । ते । सप्तऋषिऽवन्तम् । ऋच्छन्तु ये। मा। अघऽयवः । उदीच्याः । दिशः । अभिऽदासात् ॥ ७ ॥ इन्द्रं ते मरुत्वन्तमृच्छन्तु । ये मापायव एतस्या दिशोभिदासात् ॥ ६ ॥ इन्द्रम । ते । मरुतऽवन्तम् । ऋच्छन्तु । ये। मा । अघऽयवः । एतस्याः । दिशः । अभिऽदासात् ॥ ७ ॥ सप्तऋषिवन्तम् सप्तसंख्याका ऋषयः सृज्यत्वेन यस्य सन्ति । इति मतुप् । ऋत्यकः" इति प्रकृतिभावः । "छन्दसीरः” इति मनुपो वत्वम् । मरुत्वन्तम् मरुद्भिस्तद्वन्तम् इन्द्रम् । एतस्या उदीच्या दिशः ॥ शिष्टं व्याख्यातम् ॥ PP AF. Wo witli J. 1 ४ इति ऋत्यकः वाचम् ॥