पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

" M ३४४ अथर्वसंहिताभाष्ये स्माण्ण्यन्ताद् अभिपूर्वात् पञ्चमलकारे “तिडां तिङो भवन्ति" इति झे- स्तिबादेशः । इतश्च लोपः” इति इकारलोपः । “लेटोडाटौ इति आडागमः । “छन्दस्युभयथा" इति तिप आर्धधातुकत्वेन "णेरनिटि" इति णिलोपः । प्रत्ययलक्षणपरिभाषया "अत उपधायाः" इति वृ- ते अभिदासकाः शत्रवो वसुमन्तम् वसुभिर्देवैस्तद्वन्तम् अग्निम् ऋच्छन्तु मरणार्थं प्राप्नुवन्तु । ऋच्छ गतीन्द्रियमलयमूर्तिभावेषु । अस्मान् लोट् ॥ एवम् उत्तरे नव पर्यायमन्त्रा व्याख्येयाः ॥ अ- न्तरिक्षवन्तम् अन्तरिक्षम् अधिष्ठेयत्वेन यस्यास्ति तं वायुं ते अपायवः शत्रवः ऋच्छन्तु प्रलयार्थं प्राप्नुवन्तु ये अपायवः शत्रवः एतस्याः प्राच्या दिशः सकाशाद् आगत्य [मा] माम् अभिदासात् अभिदासयेयुः हिंस्युः ॥ तृतीयचतुर्थपर्यायमन्त्रौ । सोमं ते रुद्रवन्तमृच्छन्तु । ये माघायवो दक्षिणाया दिशोभिदासात् ॥ ३ ॥ सोमम् । ते । रुद्रऽव॑न्तम् । ऋच्छन्तु । ये। मा। अघऽयवः । दक्षिणायाः । दिशः । अभिऽदासात् ॥ ३ ॥ वरुणं त आदित्यवन्तमृच्छन्तु । ये मापायव एतस्या दिशोभिदासात् ॥ ४॥ वरुणम् । ते । आदित्यऽव॑न्तम् । ऋच्छन्तु । ये। मा । अघऽयवः । एतस्याः । दिशः । अभिऽदासात् ॥ ४ ॥ ते हिंसकाः शत्रवो रुद्रवन्तम् रुद्रैर्देवैस्तद्वन्तं सोमं देवम् ऋच्छन्नु नाशार्थ गच्छन्तु ॥ आदित्यवन्तम् आदित्यैरदितिपुत्रैः आदित्यसंज्ञकैर्वा देवैस्तद्वन्तं वरुणम् अरिष्टनिवारकं देवं ते शातयितारो रिपवः ऋच्छन्तु । एतस्या दक्षिणाया दिशः ॥ शिष्टं पूर्ववत् ॥ पञ्चमषष्ठमन्त्र्य1पाठस्तु ॥ सूर्यं ते द्यावापृथिवीवन्तमृच्छन्तु । ISom. मन्त्र