पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षष्ठी । ३४२ अथर्वसंहिताभाष्ये शः । पातु । तस्मिन् । क्रमे। तस्मिन् । श्रये। ताम्। पुरम्। प्र। एमि। सः । मा। रक्षतु । सः । मा । गोपायतु । तस्मै । आत्मानम् । परि । ददे। स्वाहा ॥९॥ प्रजननवान् प्रजननं नाम सर्वजगदुत्पादनसाधनम् तद्नान् । यद्वा प्र. जननं पुंव्यञकम् स्त्रीपुंससृष्टेस्तद्हेतुत्वात् । प्रजापतिः प्रकर्षेण जायमाना मनुष्यादिकाश्चराचरात्मिकाः प्रजाः तासां पतिः स्रष्टा देवः । सहसाम- र्थ्यात् प्रजननेन साकम् इत्यर्थः । यद्वा प्रतिष्ठायाः । तृतीयार्थे षष्ठी। प्रतिष्ठया सहेति । प्र1तिष्ठायाः सर्वजगदाधारभूताया ध्रुवा- याः स्थिराया भूमेर्दिशः । भूमिरपि अधरदिक्त्वेनोच्यते । तस्याः पातु ॥ तस्मिन् क्रमे इत्यादि शिष्टम् अविशिष्टम् ॥ दशमपर्यायः॥ बृहस्पतिर्मा विश्वैर्देवैरूर्ध्वाया दिशः पातु तस्मिन् क्रमे तस्मिञ्छ्रये तां पुरं प्रैमि। स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥ १० ॥ बृहस्पतिः । मा। विश्वैः । देवैः । ऊर्ध्वायाः । दिशः। पातु । तस्मिन् । क्र- मे । तस्मिन् । श्रये । ताम् । पुरम् । प्र। एमि। सः। मा। रक्षतु । सः । मा। गोपायतु । तस्मै । आत्मानम् । परि। ददे। स्वाहा ॥ १० ॥ बृहस्पतिः बृहतां महतां देवानां पतिर्देवो विश्वैः सर्वैर्देवैः सह ऊर्ध्वा- या उपरिस्थिताया दिवो दिशः । द्यौरपि ऊर्ध्वदिकत्वेन तत्रतत्रोच्यते । तस्याः पातु । तस्मिन् विश्वदेवसहिते बृहस्पतौ रक्षितरि क्रमे पादप्र- क्षेपं करोमि ॥ शिष्टं पूर्ववन्नेयम् ॥ [इति ] द्वितीयेनुवाके अष्टमं सूक्तम् ॥ 18' प्रतिप्रतिष्ठायाः.