पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

स “ [अ°२. सू०१७.] ५६१ एकोनविंशं काण्डम् । ३४१ अष्टमपर्यायः ॥ इन्द्रो मा मरुत्वानेतस्या दिशः पातु तस्मिन् क्रमे तस्मिञ्छ्ये तां पुरं प्रैमि। स मो रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥ ४ ॥ इन्द्रः । मा। मरुतऽवान् । एतस्याः। दिशः । पातु। तस्मिन्। क्रमे । तस्मिन् । श्रये । ताम । पुरम् । प्र । एमि । सः । मा। रक्षतु । सः । मा। गोपायतु । तस्मै । आत्मानम् । परि । ददे। स्वाहा ॥ ॥ मरूत्वान् मरुद्भिस्तद्वान् । "झयः” इति मतुपो वत्वम् । इन्द्रः एतस्याः पूर्वमन्त्रोक्ताया उदीच्या दिशः पातु । इन्द्रस्य मरुत्सा- हित्यम् अन्यत्राम्नायते । “वृत्रस्य वा श्वसथाद् ईषमाणा विश्वे देवा अ- 'जहुर्ये सखायः । मरुद्भिरिन्द्र सख्यं ते अस्त्वथेमा विश्वाः पृतना ज- “यासि" इति [ऋ६.९६.७] । अस्य मन्त्रस्य ऐतरेयकब्राह्मणम् ए- वम् आम्नायते । 'इन्द्रो वै वृत्रं हनिष्यन्सर्वा देवता अब्रवीद् अनु "मोपतिष्ठध्वम् उप माह्वयध्वम् इति । तथेति तं हनिष्यन्त आद्रवन् । 'सोवेन्मां वै हनिष्यन्त आद्रवन्ति हन्तेमान् भीषया इति । तान् अभि 'प्राश्वसीत् । तस्य श्वसथाद् ईषमाणा विश्वे देवा अद्रवन् । मरुतो हैनं 'नाजहुः । महर भगवो जहि वीरयस्वेत्येवैनम् एतां वाचं वदन्त उ- “पातिष्ठन्त" इति [ऐ ब्रा०३.२०] । तस्मिन् मरूत्वति इन्द्रे रक्षित- रि ॥ शिष्टं पूर्ववद् व्याख्येयम् ॥ नवमपर्यायः ॥ प्रजापतिर्मा प्रजननवान्त्सह प्रतिष्ठाया ध्रुवाया दिशः पातु तस्मिन् क्र- मे तस्मिञ्छ्रये तां पुरं प्रैमि। स मो रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥ ९ ॥ प्रजापतिः । मा । प्रजननऽवान् । सह । प्रतिस्थायाः । ध्रुवायाः । दि- ACDR SHA”. CS 7777°. PJ ghtasatal. We with KÄVD.Š. " << “ 46