पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३४० अथर्वसंहिताभाष्ये ताः। मा। रक्षन्तु । ताः । मा । गोपायन्तु । ताभ्यः । आत्मानम् । परि । ददे । स्वाहा ॥ ६॥ ओषधीमतीः ओषधीमत्यः । “वा छन्दसि” इति पूर्वसवर्ण- दीर्घः । आपः । अपाम् ओषधीसाहित्यं संपोष्यत्वेन हेतुना । एतस्या दिशः [मा] मां पान्तु । तासु ओषधीमतीष्वप्सु रक्षिकासु स. तीषु क्रमे गन्तव्यं स्थानं प्रति पादं प्रक्षिपामि । तासु रक्षित्रीषु अये संश्रये अवतिष्ठे । तां पुरम् शय्यागृहलक्षणां प्रैमि प्रगच्छामि । तत्र स- र्वत्र आपः पान्तु इति संबन्धः । किं च ता आपो [मा] मां रक्ष- न्तु । ताश्च मा गोपायन्तु । ताभ्यः अभ्यः आत्मानं परि ददे रक्ष- णार्थ प्रयच्छामि । स्वाहाशब्दो व्याख्यातः ॥ सप्तमपर्यायः ॥ विश्वकर्मा मा सप्तऋषिभिरुदीच्या दिशः पातु तस्मिन् क्रमे तस्मिञ्छ्रये तां पुरं प्रैमि। स मा रक्षतु । स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥ विश्वकर्मा । मा । सप्तऋषिऽभिः । उदीच्याः । दिशः । पातु । तस्मिन् । क्रमे । तस्मिन् । श्रये । ताम् । पुरम् । प्र। एमि । सः । मा । रक्षतु । सः । मा। गोपायतु । तस्मैं । आत्मानम् । परि। ददे। स्वाहा ॥ ७ ॥ विश्वकर्मा विश्वं सर्वं कर्मं कार्यं सृज्यं यस्माद् भवति स विश्वकर्मा विश्वजगत्कारणभूतः परमात्मा सप्तर्षिभिः स्वमनःसृष्टैः सप्तसंख्याकैर्ऋषिभिः सह मा माम् उदीच्या उत्तरस्या दिशः पातु । विश्वकर्मणः सप्तर्षिसा- हित्यं स्वकार्यत्वेन । उक्तं च भगवता गीतासु । महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा । मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ॥ इति [भ गी०१०.६] ॥ तस्मिन् सप्तर्षिसहित विश्वकर्मणि रक्षितरि क्र- मे इत्यादि पूर्ववद् व्याख्येयम् ॥ 11