पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३३९ [अ०२. सू०१७.] ५६१ एकोनविंशं काण्डम् । सः । मा। रक्षतु । सः । मा। गोपायतु । तस्मै । आत्मानम् । परि । ददे। स्वाहा ॥४॥ वरुणः वारको देवः आदित्यैः अदितिपुत्रैः एतत्संज्ञैर्देवैः सह । वरु- णस्स आदित्यसाहित्यम् अन्यत्र श्रूयते । आदित्यैर्नो वरुणः शर्म यं- सत्" इति [आश्व०२.११] । एतस्या दक्षिणाया दिशः पातु ॥ शिष्टं " व्याख्यातम् ॥ पञ्चमपर्यायः ॥ सूर्यो मा द्यावापृथिवीभ्यां प्रतीच्या दिशः पातु तस्मिन् क्रमे तस्मिञ्छ्रये तां पुरं प्रैमि। स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥ ५ ॥ सूर्यः। मा। द्यावापृथिवीभ्याम् । प्रतीच्याः । दिशः । पातु । तस्मिन् । क्र- मे। तस्मिन् । श्रये । ताम् । पुरम् ।प्र। एमि। सः। मा। रक्षतु । सः । मा। गोपायतु । तस्मै। आत्मानम् । परि । ददे। स्वाहा ॥ ५॥ सूर्यः सर्वस्य प्रेरक आदित्यः । “राजसूयसूर्यः' इति सुवतेः सूयतेर्वा सूर्यशब्दः क्यबन्तत्वेन निपातितः । द्यावापृथिवीभ्यां सह । तत्प्रकाश्यत्वेन तत्साहित्यम् । प्रतीच्याः पश्चिमाया दिशः ॥ शिष्टं पूर्ववद् व्याख्येयम् ॥ षष्ठपर्यायः॥ आपो मौषधीमतीरेतस्या दिशः पान्तु तासु क्रमे तासु श्रये तां पुरं प्रैमि। ता मा रक्षन्तु ता मा गोपायन्तु ताभ्य आत्मानं परि ददे स्वाहा ॥६॥ आपः। मा। ओषधीऽमतीः । एतस्याः । दिशः। पान्तुं । तासु । क्रमे। ता- । अये । ताम् । पुरम् । म । एमि । eð grei. We with PJ.