पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३३६ अथर्वसंहिताभाष्ये स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥ २ ॥ वायुः । मा। अन्तरिक्षेण । एतस्याः । दिशः। पातु । तस्मिन् । क्रमे । त- स्मिन् । अये । ताम् । पुरम् । प्र। एमि। सः । मा। रक्षतु । सः । मा । गोपायतु । तस्मै । आत्मानम् । परि । द- दे । स्वाहा ॥२॥ वायुः अन्तरिक्षस्थानो देवः अन्तरिक्षेण स्वाधिष्ठिते1न मध्यमलोकेन सह मा माम् एतस्याः पूर्वमन्त्रे पुरस्ताद् इति निर्दिष्टायाः माच्या दिशः पा- तु। “भीत्रार्थानाम्" इति अपादानत्वात् पञ्चमी ।। त- स्मिन् क्रम इत्यादि पूर्ववत् ॥ तृतीयपर्यायः ॥ सोमो मा रुदैर्दक्षिणाया दिशः पातु तस्मिन् क्रमे तस्मिछ्ये तां पुरं प्रैमि। स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥ ३ ॥ सोमः । मा। रुद्रैः । दक्षिणायाः । दिशः । पातु । तस्मिन् । क्रमे । त- स्मिन् । श्रये । ताम् । पुरम । म। एमि । सः । मा। रक्षतु । सः । मा। गोपायतु । तस्मै । आत्मानम् । परि । ददे। स्वाहा ॥३॥ सोमो देवः रुद्रैः रोदयितृभिः एतत्संज्ञकैर्देवैः मा मां दक्षिणस्या दि- शः पातु । सोमस्य रुद्रसाहित्यम् अन्यत्राम्नायते । “सोमो रुद्रैरभिर- क्षतु त्मना" इति [आश्व० २.११] ॥ शिष्टं पूर्ववन्नेयम् ॥ चतुर्थपर्यायः ॥ वरुणो मादित्यैरेतस्या दिशः पातु तस्मिन् क्रमे तस्मिछ्रये तां पुरं प्रैमि । स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥ ४ ॥ वरुणः । मा। आदित्यैः । एतस्याः । दिशः । पातु । तस्मिन् । क्रमे । त- स्मिन् । श्रये । ताम । पुरम् । प्र। एमि । 18 स्वधिष्ठितेन.