पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

यः । तां पुरम [अ०२. सू०१७.] ५६१ एकोनविंशं काण्डम् । ३३७ तस्मिन् पादप्रक्षेपे । तस्मिन् श्रये । श्रयणं श्रयः आश्र-1 यः। "श्रिणीभुवोनुपसर्गे” इति विहितो घञ् व्यत्ययेन न प्र- वर्तते । “एरच्" इति 2अच् प्रत्ययः । तस्मिन् आश्रये अवस्था- ने । पादप्रक्षेपप्रदेशे अवस्थानप्रदेशे चेत्यर्थः । यद्वा क्रमे श्रये इति ति- ङन्तं पदम् । तस्मिन् यस्मिन्नुद्दिष्टे स्थाने क्रमे पादं प्रक्षिपामि । क्र- मतेर्विपूर्वत्वाभावेपि व्यत्ययेन आत्मनेपदम् । यद्वा । वृत्याद्यर्थेषु अनुप- सर्गाद् आत्मनेपदम् । यद् गन्तव्यं स्थानम् उद्दिश्य उत्सहे त3 त्र । तथा यत् स्थानं श्रये आश्रयामि तत्र । ५ श्रीञ् सेवायाम् । लटि ञित्त्वात् कर्त्रभिप्राये क्रियाफले4 आत्मनेपदम् ॥ तां पुरम् या उद्दिष्टा पू: शय्यागृहलक्षणा तां पुरं प्रैमि प्रगच्छामि । तत्र सर्व- त्र अग्निर्मा पात्विति संबन्धः । यता "आपो मौषधीमतीः" इति ष- ष्ठमन्त्रे तासु क्रमे तासु श्रये इति स्त्रीलिङ्गनिर्देशेन आम्नानाद् अत्रापि तस्मिन् क्रमे इत्यत्र एवं व्याख्येयम् । तस्मिन् । [सति सप्तमीयम् । तस्मिन् वसुमत्यग्नौ रक्षके सति क्रमे 5क्रमणं करोमि । तस्मिन् रक्षके सति श्रये आश्रयामि । तां पुरं प्रैमीत्यादि पूर्ववत् । किं च स वसु- मान् अग्निः मा मां रक्षतु । सोग्निश्च मा मां गोपायतु । अत्र रक्षणगोपन- योः अहितनिवारणहितकरणरूपपालनभेदेन भेदो द्रष्टव्यः । गुपेः "गुपूधूप०” इति आयप्रत्ययः । तस्मै सर्वतोरक्षकाय वसुमते अग्नये आत्मानं परि ददे । रक्षणार्थं दानं परिदानम् इत्युच्यते । र- क्षार्थं प्रयच्छामि । स्वाहा । तदधीनत्वद्योतनार्थ स्वाहाशब्दप्रयोगः । यथा सुहृतं6 हविस्तत्तद्देवताधीनं भवति एवम् आत्मापि रक्षणार्थम् अग्न्यधी- नो भववित्यर्थः ॥ एवम् 7उत्तरे' नव पर्याया व्याख्येयाः । विशेषस्तु तत्रतत्र वक्ष्यते ॥ द्वितीय8पर्यायमन्त्रः ॥ वायुर्मान्तरिक्षेणैतस्या दिशः पातु तस्मिन् क्रमे तस्मिंछ्ये तां पुरं प्रैमि। AS क्रियापदे. क्रमेण, GS सुहतं. 75 एवमुत्तरेयनवमप. 88 द्वितीयः. 1 श्रयः 28 येनजित्प्रत्ययः. 38तत्रस्थ for तत्र.