पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये अथ पिष्टमयीं रात्रिं चतुर्भिर्दीपकैः सह । 1अर्चितां गन्धमाल्येन स्थापयेत् तस्य चाग्रतः ॥ इति प्रक्रम्य [प०४.३] उक्तं परिशिष्टे । “अभयम् [१९. १५. ५] इत्यृचा2 "चतस्रः शर्कराः प्रदक्षिणं प्रतिदिशं क्षिपेत् । 3एह्यश्मानम् आं तिष्ठ[२. "१३.४] इति पञ्चमीम् अधिष्ठापयेत् । न तं यक्ष्माः [१९.३०] ऐतु "देवः [ १९. ३९] इति गुग्गुलुकुष्ठधूपं दद्यात् । यस्ते गन्धः [१२. १. “२३-२५] व्यायुषम् [५.२६.७] इति भूमिं प्रयच्छेत् । दूष्या दूषिरसि " [२. ११.१] इति प्रति4सरम् आवध्य तां शर्कराम् अग्निर्मा पातु वसु- “भिः पुरस्ताद् [१९.१७] इति प्रतिदिशं क्षिपेत्” [प०४.४] इति ॥ तत्र “अग्निर्मा पातु" इति सूक्ते एकैकस्याः प्राच्यादिमहादिशो द्वौ द्वौ पर्यायौ ध्रुवाया ऊर्ध्वाया56 दिशश्च एकैक इति दश पर्यायाः ॥ तत्रं प्रथमपर्याये एष मन्त्र आम्नायते ॥ अग्निौ पातु वसुभिः पुरस्तात् तस्मिन् क्रमे तस्मिछ्ये तां पुरं प्रैमि । स मां रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥१॥ अग्निः । मा। पातु । वसुऽभिः । पुरस्तात् । तस्मिन् । क्रमे । तस्मिन् । श्रये । ताम् । पुरम् । प्र । एमि । सः । मा । रक्षतु । सः । मा। गोपायतु । तस्मै । आत्मानम् । परि । ददे । स्वाहा ॥१॥ अग्निः पृथिवीस्थानो देवः वसुभिः एतासंज्ञकैर्देवैः सह पुरस्तात् पूर्व- स्यां दिशि मा मां पातु रक्षतु । अग्नेर्वसुसाहित्यम् अन्यत्राम्नायते । “अग्निः प्रथमो वसुभिर्नो अव्यात्" इति [आश्व० २.११] । कुत्र- स्यं पुरुषं रक्षतु इत्याकाङ्क्षायाम् आह । तस्मिन् क्रमे । क्रमणं क्रमः पादप्रक्षेपः । भावे घञ् । 'नोदातोपदेशस्य” इति वृद्ध्यभा- 18' सहमर्चितां for सह । अर्चितां. 25 नभयं सोम व्रतेत्यन्वृचं for अभयम् इत्यूचा which we with the Paris'ishtit. 38 एह्यमानप्रातिष्ठ 15 दिशम् for °सरम्. 8 ऊर्ध्वायाश्च. 68 तत्र प्रथमपर्याय एवमत्रमाम्नायते.