पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/३३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३३५ न्दसः । [अ०२. सू०१७.] ५६१ एकोनविंशं काण्डम् । अग्नयः अङ्गनशीला गार्हपत्यादयस्त्रयोग्नयो भूम्याः सकाशाद् रक्षन्तु भू- मिहेतुकान् उपद्रवान् परिहरन्तु । दिवो भूम्या इत्युभयत्र "भी- त्रार्थानाम्" इति अपादानत्वात् पञ्चमी: ॥ तथा पुरस्तात् पूर्व- स्या दिशो मा माम् इन्द्राग्नी रक्षताम् पालयताम् । इन्द्रः पूर्वदिगभि- मानी । आहवनीयाग्निरपि पूर्वदिगभिमुख एव 1प्रणीयते । अतस्तौ त- तो रक्षितारौ भवताम् ॥ तथा अश्विना अश्विनौ सूर्यपुत्रौ देवानां भिषजौ नासत्यौ अभितः सर्वतः शर्म सुखं यच्छ2ताम् प्रयच्छताम् । "पा- प्रा.” इत्यादिना दाणो यच्छादेशः ॥ तृतीया ॥ [तिरश्चीनित्यादि । ] सैषा द्विपदा ऋक् । जातवेदाः जा- तानां वेदिता जातैर्विद्यमानो वा अग्निः तिरश्चीन् तिर्यगञ्चनान् अस्मान् रक्षतु । यद्वा तिरश्चीशब्देन विदिश उच्यन्ते । नकारोपजनश्छा- न्दसः। तिरश्वीः । ' पञ्चम्याः शसादेशः । तिरश्वीभ्यो दिग्भ्यो रक्षतु । तिरःपूर्वाद् “अञ्चतेश्वोपसंख्यानम्” इति ङीप् । “अचः” इति अकारलोपे श्रुत्वेन शकारः । तिरश्चीनान् अस्मान् इति पक्षे तिर्यक्शब्दाद् “विभाषाञ्चेरदिक्खस्त्रयाम्" इति स्वः । तस्य ईना- देशे तिरश्वीन् इति भवति । अत्र अन्त्यलोपश्छान्दसः । अग्नी रक्षतु इत्यत्र । “ढ्रलोपे” इति सांहितिको दीर्घः ४ । भूतकृतः भ- वनवताम् उत्पत्तिमतां प्राणिनां कर्तारो निर्मातारो देवाः । यद्वा भूता ग्रहपिशाचादयः । तेषां निकर्तितारो हिंसितारो देवाः । कृती छेदने । क्विप् । तादृशा देवा मे मम सर्वतः सर्वत्र वर्म परैरभेद्यं सुरक्षकं कवचं सन्तु भवन्तु ॥ [इति ] द्वितीयेनुवाके सप्तमं सूक्तम् ॥ 'अग्निर्मा पातु" इति सूक्तद्वयस्य रात्र्यौ राज्ञः शयागृहप्रवेशनार्थ पुरोहितेन कर्तव्ये पिष्टमयरात्रिप्रतिमादिसमर्चनकर्मणि प्रतिदिशं शर्करा- चतुष्टयप्रक्षेपानन्तरं राजान3म् अधिष्ठापितायाः पञ्चम्याः शर्करायाः प्रति- दिशं प्रक्षेपे विनियोगः । दिग्भ्यो रक्षतु । भूतकृतः भ- ८ राशम् l राजानम्. 18 प्राणीयंते. 28 as प्रथम insertent after यच्छताम्. Sce Sayaņa's intreluction to II. 13.